पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१५
चतुर्दशः सर्गः।


तवोपवाराणसि नामचिह्र वासाय पारेसि पुरं पुरास्ति ।
निर्वातुमिच्छोरपि तत्र भैमीसंभोगसंकोचभियाधिकाशि ॥७५॥

 तवेति ॥ हे नल, निर्वातुमिच्छोरपि मुमुक्षोरपि तव वासाय वसत्यर्थमुपवाराणसि काशीसमीपे पारेसि असिनद्याः परतीरे नामचिह्नं त्वन्नामाङ्कितं तत्प्रसिद्धं पुरं नलपुरमिति यावत् पुरास्ति भविष्यति । इदानीमन्यत्र निवासेप्यतः परं तत्पुरं राजधानी भविष्यति । मुमुक्षोरपि ते पुरं काशीमधिकृत्य न कृतमित्यर्थः । किमिति न कृतमित्यत आह-भैम्या सह संभोगः सुरतादिसुखं तस्य संकोचोल्पत्वं तस्माद्भिया भयेन । अधिकाशि पञ्चक्रोशपरिमितायां काश्यां मुक्तिपुर्या ब्रह्मचर्यादिनियमे भोगसंकोचभिया तत्पुरं न कृतम् , किंतु तत्समीप इति भावः । उपवाराणसि सामीप्येऽव्ययीभावः । पारेसि, 'पारेमध्ये षष्ठ्या वा' इत्येदन्तत्वं च तत एव निपातनात् । पुरास्ति, यावत्पुरा-' इति लट् । अधिकाशि, सप्तम्यर्थेऽव्ययीभावः ॥

धूमावलिश्मश्रु ततः सुपर्वा मुखं मखास्वादविदां तमूचे।
कामं मदीक्षामयकामधेनोः पयायतामभ्युदयस्त्वदीयः ॥ ७६ ॥

 धूमेति । ततो धूमावलिरेव श्मश्रु यत्रैवंविधं मखास्वादविदां यज्ञरसाभिज्ञानां देवानां मुखं सुपर्वा देवोऽग्निरिति तं नलमूचे । इति किम्-हे नल, त्वदीयोऽभ्युदयस्त्वत्समृद्धिः कामं नितरां ममेक्षामयी विलोकनमयी विलोकनरूपा कामधेनुस्तस्याः पयायतां दुग्धमिवाचरतु तद्वदपरिमितो भवत्विति॥ मद्विलोकनमात्रेण तव समृद्धिरनन्तास्त्विति तस्मै वरं दत्तवानित्यर्थः । अन्यत्रापि मुखस्य भाषणं श्मश्रु च युक्तम् । कामधेनोः पयो युक्तम् । धूमावलिरूपेण श्मश्रुणा ततो व्याप्त इति वा । पयायताम् । आचारे, 'कर्तुः क्यङ् सलोपश्च' इति क्यङ्सलोपौ ॥

 वरान्तरमाह-

या दाहपाकौपयिकी तनुर्मे भूयास्त्वदिच्छावशवर्तिनी सा।
तया पराभूततनोरनङ्गातस्याः प्रभुः सन्नधिकस्त्वमेधि ॥ ७७ ॥

येति ॥ हे नल, स्फोटादिजनितो दाहः, तण्डुलादेः पाकः, तयोरौपयिकी कारणभूता मे या तनुर्मूर्तिः सा तवेच्छाया वशे वर्तत इत्येवंशीला भूयात् । निरग्निकेऽपि देशे यत्र त्वमभिलषिष्यसि तत्र दाहपाकयोग्या मम मूर्तिः प्रकटा भवत्वित्यर्थः । अतएव वशवर्तित्वात्तस्या मदीयमूर्तेः प्रभुः स्वामी संस्त्वं शिवनेत्रज्वालारूपया तया मदीयमूर्त्या पराभूततनोर्दग्धशरीरादनङ्गादधिक एधि भव । पूर्वमेव सुन्दरत्वेन कामादधिकः, इदानीं तु मत्तन्वास्त्वद्वशवर्तित्वात्त्वदासीभूतया कामे पराभूते प्रकारान्तरेणाप्यधिकतरो भवेति भावः॥

 वरान्तरमाह-

अस्तु त्वया साधितमन्नमीनरसादि पीयूषरसातिशायि ।
यद्भूप विद्मस्तव सूपकारक्रियासु कौतूहलशालि शीलम् ॥ ७८ ॥