पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१३
चतुर्दशः सर्गः।

 इदानीं देव्यापि स्वाकारो धृत इत्याह-

देव्यापि दिव्यानु तनुः प्रकाशीकृता मुदश्चक्रभृतः सृजन्ती ।
अनिह्नूतैस्तामवधार्य चिह्नैस्तह्वाचि बाला शिथिलाद्भुताभूत्॥६९॥

 देव्येति ॥ अन्विन्द्रादीनां स्वाकारधारणानन्तरं देव्या अपिसरस्वत्या अपि चक्रभृतः श्रीविष्णोः मुदो हर्षान्सृजन्ती प्रेयसितरा दिव्या तनुः सुन्दरा मूर्तिः प्रकाशीकृता । देव्यापि स्वाकारो धृत इत्यर्थः । अनन्तरं च बाला भैमी अनिह्वुतैः प्रकटितैर्विणाहं सादिभिश्चिह्नैस्तां सरस्वतीमवधार्य ज्ञात्वा तद्वाचि श्लेषवक्रोक्त्यादिरूपायां तस्या वाण्यां विषये शिथिलाद्भुता परित्यक्ताश्चर्याभूत् । पूर्व तु मानुषीयमीदृशं कथं वदतीति साश्चर्याऽभूत् । संप्रति सरस्वतीं दृष्ट्वा अस्या एवमुक्तौ किमाश्चर्यमपि तु न किंचिदिति त्यक्ताश्चर्या जातेत्यर्थः॥

विलोकके नायकमेलकेऽस्मिन्रूपान्यताकौतुकदर्शिभिस्तैः।
बाधा बतेन्द्रादिभिरिन्द्रजालविद्याविदां वृतिवधाइयधायि ॥७०॥

 विलोकक इति ॥ अस्मिन्नानादेशेभ्यः समागते नायकमेलके राजसङ्घे विलोकके विलोकयति सति रूपान्यतया नलाकारं परित्यज्य सहस्रनेत्राद्याकारधारणेन कौतुकं दर्शयितुं शीलमेषामेवंभूतैर्देवीसहितैरिन्द्रादिभिर्निर्जले जलदर्शनादिरूपामिन्द्रजाल- विद्यां ये विदन्ति जानन्ति तेषां वृत्तिवधाज्जीवनोपायस्य स्वयमङ्गीकरणेन नाशाद्वाधा व्यधायि पीडा विहिता। बताश्चर्य कष्टं वा । स्वयंवरमध्य इन्द्रजालं प्रकटयतामैन्द्रजालिकानां विलोककेऽस्मिन् राजसङ्घे तैर्वृत्तिवधात्तेषां बाधा व्यधायि । ऐन्द्रजालिकान्परित्यज्येन्द्रादीनामेव विलोकनादित्यर्थ इति तत्त्वार्थों वा । रूपान्तरं धारयमाणानिन्द्रादीन्दृष्ट्वा सर्वेपि साश्चर्या जाता इति भावः । तैः, सा च ते च 'पुमान्स्त्रिया' इत्येकशेषः॥

विलोक्य तावाप्तदुरापकामौ परस्परप्रेमरसाभिरामौ ।
अथ प्रभुः मीतमना बभाषे जाम्बूनदोर्वीधरसार्वभौमः ॥ ७१ ॥

 विलोक्येति॥ अथ जाम्बूनदस्य सुवर्णस्योर्वीधरः पर्वतो मेरुस्तस्य सार्वभौमश्चक्रवर्ती अत एव प्रभुः समर्थ इन्द्रःप्रीतमनाः सन् तौ भैमीनलावेतादृशौ विलोक्य बभाषे ॥ किंभूतौ-आप्तोन्योन्यप्राप्तिरूपो दुरापोन्येन प्राप्तुमशक्यः कामोऽभिलाषो याभ्याम् । अत एव-परस्परप्रेमरसेनाभिरामौ स्तम्भस्वेदादिसात्त्विकभावयुक्तौ । 'प्रभुः, जाम्बूनदोर्वीधर-'इत्यादिना वरदानसामर्थ्य सूचितम् । 'प्रीतमनाः' इत्यनेन च स्वेच्छयैव वरं दातुमारब्धवान्नतु याचितः सन्निति प्रतारणाभावं सूचयति । सार्वभौमः । 'तस्येश्वरः' इत्यण् । अनुशतिकादित्वादुभयपदवृद्धिः॥