पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
नैषधीयचरिते

रूपं येषां तैस्तव पत्त्रैः कृत्वा दारुणायते भीषणवदाचरति । केतकाग्रदर्शनाद्वियोगिनोः स्त्रीपुंसयोर्धैर्यभङ्गः, पत्त्रदर्शनाच्च हृदयं विदीर्णं भवतीति भावः । 'दारुणायसे' इति पाठे त्वमिति ज्ञातव्यम् । सूची इति गौरादिपाठान्ङीष् । कामिनोः वियोगीत्यत्र च 'पुमान्स्त्रिया' इत्येकशेषः॥

धनुर्मधुस्विन्नकरोऽपि भीमजापरं परागैस्तव धूलिहस्तयन् ।
प्रसूनधन्वा शरसात्करोति मामिति क्रुधाक्रुश्यत तेन केतकम् ॥८१॥

धनुरिति ॥ प्रसूनधन्वा कामस्तव परागैर्धूलिभिः धूलिहस्तयन्धूलियुक्तं हस्तं कुर्वन्सन् भीमजापरं भैम्यनुरक्तं मां शरसाद्बाणाधीनं बाणलक्ष्यं करोति । किंभूतः कामः-'धनुः पुष्पं तस्य मधुना रसेन स्विन्न आर्द्रः करो यस्य' इति केतकमनिन्द्यत । तव धूलिर्यदि न स्यात्तदा कामः स्विन्नकरत्वाच्च्युतसायकः स्यात् । अतोऽयमपराधस्तवैव । स्विन्नकरो धनुर्धरो धूलियुक्तं हस्तं करोतीति जातिः । धूलिहस्तयन्निति । धूलियुक्तं हस्तं करोतीति ण्यन्ताच्छतृ । प्रसूनधन्वा इति 'धनुषश्च' इत्यनङ् । शरसादिति तदधीन-' इति सातिः॥

विदर्भसुभ्रूस्तनतुङ्गताप्तये घटानिवापश्यदलं तपस्यतः ।
फलानि धूमस्य धयानधोमुखान्स दाडिमे दोहदधूपिनि द्रुमे ॥८२॥

 विदर्भेति ॥ स नलो दाडिमे द्रुमे दाडिमसंज्ञके फलानि अपश्यत् । किंभूते द्रुमे- दोहदधूपिनि अतिशयितफलादिसमृद्धिर्येन भवति तद्दोहदम् । दाडिमीवृक्षस्य दोहदं यो धूपो दोहधूपः, सोऽस्यास्तीति तस्मिन् । कानिव-घटानिव । किंभूतान्घटान्- विदर्भसुभ्रूर्भैमी, तस्याः स्तनयोस्तुङ्गता उच्चैस्त्वं तस्या आप्तयेऽलमतिशयेन तपस्यतस्तपः कुर्वतः । अत एव धूमस्य धयान्धायकान् । अत एवाधोमुखान् । अन्योऽप्युच्चपद्माप्तयेऽधोमुखो धूमपानादिना तपश्चरति । एतानि दाडिमीफलानि न, किन्तु घटा एवैते । तानिवेत्युत्प्रेक्षा । तपस्यतः 'कर्मणो रोमन्थ-' इत्यादिना क्यङ् । 'तपसः परस्मैपदं च' इति वक्तव्याच्छतृ । धयान् 'पाघ्रा-' इति सूत्रेण धेटः शः। तत्रोपसर्गानुवृत्तिर्नावश्यकी' इति वृत्तावुक्तम् । दोहदधूपिनि इति कर्मधारयादिनिः समर्थनीयः॥

वियोगिनीमैक्षत दाडिमीमसौ प्रियस्मृतेः स्पष्टमुदीतकण्टकाम् ।
फलस्तनस्थानविदीर्णरागिहृद्विशच्छुकास्यस्मरकिंशुकाशुगाम् ८३

 वियोगिनीमिति ॥ असौ नलो दाडिमीमैक्षतापश्यत् । किंभूताम्-वियोगिनीं विभिः पक्षिभिः शुकादिभिः योगोऽस्या अस्तीति । अथ च वियोगिनीं विरहिणीं नायिकामिवेति लुप्तोत्प्रेक्षा । प्रियस्मृतेर्दोहदादिस्मरणात् (लक्षणया) प्राप्तेर्हेतोः स्पष्टं प्रकटमुदीतकण्टकां । प्रियस्मरणाद्रोमाञ्चिताङ्गीम् । नायिकापि नायकस्मरणाद्रोमाञ्चिताङ्गी भवति । तथा -फलानि स्तना इव, तेषां स्थाने मध्ये विदीर्णं स्फुटितं रागि पक्व-


१ 'अत्रोत्प्रेक्षालंकारः' इति जीवातुः।