पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०३
चतुर्दशः सर्गः ।

 मुखेति ॥ भीमोद्भवा देव्यास्तामङ्कपालीं नुनुदेऽमुञ्चत् । केव-विवोढुः परिणेतुर्दृढां थमसुरतारम्भनिर्भरामङ्कपालीं नवोढा नववधूरिव । अङ्कपालीमोचनमात्रेण साम्यं विवक्षितं नतु लिङ्गम् । किंकृत्वा-परिहासवशान्नलसंमुखगमननिषेधिकानामालीनां सखीनां निवारणव्यञ्जको 'हुंहुं' इति रवः शब्दस्तद्रूपैर्लक्ष्यैश्चिह्नैर्लक्ष्यं ज्ञेयं, तेषां वा लक्ष्यं विषयभूतम् । यद्वा-अर्थान्नलवरणनिषेधिकास्वालिषु कोपवशा- द्भैम्या एव हुंहुंकारास्तद्रूपैश्चिह्नैर्लक्ष्यम् । अथच-अलीनां भ्रमराणामिव ये हुंहुंरवाः । यद्वा-पद्मिनीत्वाद्भ्रमराणां हुंहुंरवैर्लक्ष्यम् । आवर्तने परावर्तने लोलं चञ्चलं कण्ठदण्ड एव नालं यस्य एवंभूतं मुखानंX कृत्वा । नवोढापि आलिङ्गनादि कुर्वित्युपदिशतीनां तासु वा हुंहुंरवचिह्नलक्ष्यं मुखाजXमावर्तयति । अXन्नमपि लोलनालं भ्रमरहुंहुंरवलक्ष्यं च भवति । 'रवलक्ष' इति पाठे लक्षसंख्येत्यर्थः ॥

देवी कथंचित्खलु तामदेवद्रीचीं भवन्ती स्मितसिक्तसृक्का।
आह स्म मां प्रत्यपि ते पुनः का शङ्का शशाङ्कादधिकास्यबिम्बे ॥ ४० ॥

 देवीति ॥ देवी तां भैमीमित्याह स्म । किंभूताम्-कथंचिन्महताङ्कपालीमोचनादिप्रकारेण कष्टेन खलु निश्चितम्। अदेवद्रीचीं भवन्तीं न देवानञ्चति देवान्प्रति गच्छति एवंविधां भवन्तीं ताम् । किंभूता-स्मितेन ईषद्धासेन सिक्तसृक्का सिक्तौष्ठप्रान्ता स्वाभिप्रायापरिज्ञानात्किंचित्कृतहासा। इति किम्-हे शशाङ्कादधिकं सुन्दरमाह्लादकमास्यबिम्बं यस्या एवंभूते भैमि, सखीप्रायां मामपि प्रति इयंप्रतार्य इन्द्रादिवरणार्थं मां नयतीति ते तव पुनः का शङ्का । अपि त्वेवं शङ्का न कार्या मा भैषीरिति । देवानञ्चति देवद्रीची,विष्वग्देवयोः-' इति टेरट्चाXदेशे उगित्त्वान्ङीपि 'अचः' इत्यकारलोपे 'चौ' इति पूर्वस्याणो दीर्घः । पश्चान्नञ्समासः । 'अदेवद्रीचीभवन्तीम्' इति पाठः सभ्यः। अदेवद्रीचीं देवद्रीचीं भवन्तीं च्विप्रत्ययः । ततो नञ्समासः। शशाङ्कात् 'यस्मादधिकम्' इति ज्ञापकात्पञ्चमी ॥

 चेन्न प्रतारयसि तर्हि पुनःपुनरिन्द्रादिसंमुखं मां किमिति तयसीत्याशङ्कायामाह-

एषामकृत्वा चरणमणाममेषामनुज्ञामन[१] वाप्य सम्यक् ।
सुपर्ववैरे तव वैरसेनिं वरीतुमीहा कथमौचितीयम् ॥४१॥

 एषामिति ॥ एषामिन्द्रादीनां चरणयोः प्रणाममकृत्वा, तथा-एषां सम्यक् यथाभवति तथानुज्ञां नलवरणानुमतिमप्राप्य निजचिह्नप्रकटनमात्रानुमितप्रसादेन लब्धप्रायामपि साक्षाच्छिर:कम्पादिसूचितामनुज्ञामलब्ध्वा सुपर्ववैरे स्वावज्ञानादिन्द्रादिभिः सह विरोधे सति येयं तव वैरसेनिं नलं वरीतुमीहा चेष्टाभिलाषो वा सा कथमिवौचिती । अपि तु न कथंचित् । स्वावज्ञानाद्विरुद्धाः सन्तः शापं दास्यन्तीति तान्प्रति नीयसे न तु वरणार्थमिति भावः । इयमौचिती वा। 'कतमौचिती' इत्यपि पाठः॥


  1. 'मनिशम्य' इत्यपि पाठः ।