पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०२
नैषधीयचरिते

त्वत्तः श्रुतं नेति नले मयातः परं वदस्वेत्युदिताथ देव्या।
हीमन्मथद्वैरथरङ्गभूमी भैमी दृशा भाषितनैषधाभूत् ॥ ३६॥

 त्वत्त इति ॥ अथ देव्या इत्युदिता परिहासवशादुक्ता भैमी दृशा दृष्ट्यैव भाषितनैषधाभूत् । इति किम्-हे भैमि, मया त्वत्तो नलविषये 'न' इति श्रुतं निषेधार्थों नकारः श्रुतः । अतः कारणात्परं नलादन्यदभीष्टं वदस्व कथय । अथ च-नलविषये 'नलः' इति पदे 'न' इति नलनाम्नोऽर्धं श्रुतम् । अतो नकारात्परमनन्तरमक्षरं कथयेति । किंभूता-ह्रीमन्मथयोर्लज्जाकामयोर्द्वैरथस्य द्वाभ्यां (रथाभ्यां) प्रवृत्तस्य युद्धस्य रङ्गभूमी नृत्तस्थानं समबलह्नीकामवशीकृता । अस्मिन्नले मालां मया क्षेपयेति दृष्ट्यैव नलं निर्दिष्टवती न त्वन्यं, न च साक्षाल्लकारमुञ्चारयति स्मेत्यर्थः । उदिता, अथ पश्चादिति वा । वदस्व, 'भासन-' इति भासने उत्साहे वा तङ् । द्वैरथं द्विरथसंबन्धीति संबन्धेऽण् ॥

हसत्सु भैमीं दिविषत्सु पाणौ पाणिं प्रणीयाप्सरसां रसात्सा।
आलिङ्ग्य नीत्वाकृत पान्थदुर्गां भूपालदिक्पालकुलाध्वमध्यम् ॥

 हसत्स्विति ॥सादेवी भैमीमालिङ्ग्याङ्कपालिकया धृत्वा भूपालस्य नलस्य दिक्पालकुलस्य च इन्द्रादिचतुष्टयस्य पुरःसरोऽध्वा मार्गस्तन्मध्यं नीत्वा प्रापय्य पान्थदुर्गां पथिक सिन्दूरादिपूजितशिलामयकल्पितमार्गदेवतामकृत चकार । इन्द्रादिपञ्चकमध्ये नीत्वा मुमोचेत्यर्थः । लज्जाभरनिश्चलत्वादतिसौन्दर्याच्च देवतात्वम् । केषु सत्सु- रसादुभयाशयपरिज्ञानाग्भैम्याश्च देव्याशयापरिज्ञानात्प्रीतेर्वाऽप्सरसामुर्वशीप्रभृतीनां पाणौ पाणिं प्रणीय निर्माय तालिकादानपूर्वं दिविषत्स्विन्द्रादिषु हसत्सु सत्सु । उत्सवादौ

 दुर्गामारोप्य राजवीथिषु भ्राम्यते, तथैनामपि चलदुर्गां चकारेत्यर्थ इति वा । दिविषत्सु, 'सत्सूद्विष-' इति क्विप्, 'हृदयुभ्यां च' इति सप्तम्या अलुक्, 'हलदन्तात्-' इति वा, सुषामादित्वात्षत्वम् । पान्थानां दुर्गा, पान्था चासौ दुर्गा चेति वा ॥

आदेशितामप्यवलोक्य मन्दं मन्दं नलस्यैव दिशा चलन्तीम् ।
भूयः सुरानर्धपथादथासौ तानेव तां नेतुमना नुनोद ॥ ३८ ॥

 आदेशितामिति ॥ अथासौ देवी भूयः पुनरप्यर्धपथात्सकाशान्नलं विहाय तानेव सुरानिन्द्रादीन्नेतुमनाः प्रापयितुकामा सती तां भैमीं नुनोद । इतश्चलेति प्रेरयति स्सेत्यर्थः । किं कृत्वा-इन्द्रादिसंमुखमागच्छेत्यादेशितामादिष्टामपि तथा मन्दं मन्दं नलस्यैव दिशा नलसंमुखमेव चलन्तीं गच्छन्तीं विलोक्य । आदेशः संजातोऽस्याः। 'अदेशिताम्' इति पाठे नलं प्रति गच्छेत्यप्रेरितामपीत्यर्थः ॥

मुखाब्जमावर्तनलोलनालं कृत्वालिहुंहुंरवल[१]क्ष्यलक्ष्यम् ।
भीमोद्भवा तां नु[२]नुदेऽङ्कपाली देव्या नवोढेव दृढां विवोढुः॥३९॥


  1. 'लक्ष्म' इति पाठः सुखावबोधायाम्
  2. 'मुमुचे' इति सुखावबोधा।