पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
प्रथमः सर्गः।

राजानं दृष्ट्वा सात्त्विकभावोत्पत्तेः कण्टकितत्वात्प्रथमं केतकं वर्णयति--

विनिद्रपत्रालिगतालिकैतवान्मृगाङ्कचूडामणिवर्जनार्जितम् ।
दधानमाशासु चरिष्णु दुर्यशः स कौतुकी तत्र ददर्श केतकम्॥७८॥

 विनिद्रेति ॥ स नलस्तत्र वने कौतुकी अपूर्वपुष्पादिदर्शनोत्सुकः, विरही वा सन्केतकीपुष्पं ददर्श । किंभूतं केतकम्-विनिद्रा विकसिता पत्रालिः पत्रपतिस्तत्र गताः, तां वा गता ये अलयो भ्रमरास्तेषां कैतवान्मिषात् मृगाङ्कश्चन्द्रः चूडामणौ यस्य स शिवः, तेन वर्जनं पुराणप्रसिद्धः परित्यागस्तेनार्जितमुपार्जितमाशासु दिशासु चरिष्णु प्रसरणशीलं दुर्यशोऽपकीर्तिः, तां दधानम् । भ्रमरा न सन्ति, किंतु महादेवकृतपरित्यागजन्यमयश इति । महता परित्यक्तोऽयशोभाग्भवति । चरिष्णु 'अलंकृञ्-' इत्यादिना इष्णुच् । कौतुकी 'अत इनिः' । केतक्याः पुष्पं केतकम् । विकारावयवप्रत्ययस्य 'पुष्पमूलेषु बहुलम्' इति वचनाल्लुक् 'लुक् तद्धित-' इति स्त्रीप्रत्ययलुक् ॥

वियोगभाजां हृदि कण्टकैः कटुर्निधीयसे कर्णिशरः स्मरेण यत् ।
ततो दुराकर्षतया तदन्तकृद्विगीयसे मन्मथदेहदाहिना ॥ ७९ ॥

 वियोगेति ॥ तेन नलेन इति क्रुधा कोधेन केतकमाक्रुश्यतानिन्द्यत' इति तृतीयश्लोकेनान्वयः। इतीति किम्-‘स्मरेण कामेन वियोगभाजां वियोगिनां स्त्रीपुंसानां हृदि वक्षसि कण्टकैः कटुः क्रूरः कर्णिशरः कर्णयुक्तो बाणः त्वं यद्यस्मान्निधीयसे निक्षिप्यसे ततस्तस्मात्कारणात्कर्णिशरत्वाद्वा हृदयाद्वा दुराकर्षतयोद्धर्तुमशक्यतया तदन्तकृद्वियोगिनां प्राणहारी त्वं मन्मथदेहदाहिना स्मरहरेण महादेवेन विगीयसे निन्द्यसे । येन वियोगिनो हता अस्मदादयः, स दग्ध एव तत्प्रेष्यस्त्वं केतकमिति निन्द्यसे । लुतोत्प्रेक्षा॥

त्वदग्रसूच्या सचिवेन कामिनोर्मनोभवः सीव्यति दुर्दशः पटौ।
स्फुटं च पत्रैः करपत्रमूर्तिभिर्वियोगिहृद्दारुणि दारुणायते ॥ ८० ॥

 त्वदग्रेति ॥ मनोभवः कामस्तवाग्रमेव सूक्ष्मत्वात्तीक्ष्णत्वाच्च सूची तद्रूपेण सचिवेनोपकारकेण सहायेन कृत्वा कामिनोः स्त्रीपुंसयोः परस्परधैर्यभङ्गो दुर्यशोलक्षणौ पटौ सीव्यति योजयति । तत्प्रथमकलिकयातिसुरभितयोद्दीपनभावहेतुभूततया कामिनावुचितानुचितसंबन्धमप्यविचार्य मिथो रिरंसू प्रवर्तेते इति भावः । स्फुटमुत्प्रेक्षते-स कामो वियोगिनां हृदेव दारु काष्ठं तस्मिन्करपत्रवत्क्रकचवन्मूर्तिः स्व-


१ 'अत्रालिकैतवादित्यनेनालित्वापह्नवेन दुर्यशस्त्वारोपादपह्नुत्यलंकारः । 'निषेध्य विषयं साम्यादन्यारोपे ह्यपह्नुतिः' इति लक्षणात्' इति जीवातुः। २ 'अत्रेश्वरकृतस्य केतकीविगर्हणस्य तद्गतवियोगिहिंस्रताहेतुत्वोत्प्रेक्षणाद्धेतूत्प्रेक्षा सा च व्यञ्जकाप्रयोगाद्गम्या सा चोक्तरूपकोत्थापितेति संकरः' इति जीवातुः। ३ 'दारुणायते, इत्युपमा, सा च हृद्दारुणीति रूपकानुप्राणितेति संकरः' इति जीवातुः।