पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६००
नैषधीयचरिते


  तस्याः प्रियं चित्तमु[१]पेतमेव प्रभूबभूवाक्षि नतु प्रयातुम् ।
  सत्यः कृतः स्पष्टमभूत्तदानीं तयाक्षिण लज्जेति जनप्रवादः ॥२९॥

 तस्या इति ॥ तस्याश्चित्तं प्रियमुपेतमेव प्राप्तमेव । अक्षि तु पुनः नलं प्रयातुं प्राप्तुं न प्रभूबभूव समर्थं नाभूत् । स्पष्टमुत्प्रेक्षते-अक्ष्णि नेत्रे लज्जेति जनप्रवादो लोकाभाणकः तया तदानीं नलवरणसमये सत्यः कृतोऽभूत् । अन्यथा लज्जायाश्चित्तधर्मत्वे चित्तस्य नलप्राप्तिरयुक्ता, नेत्रस्य च नलप्राप्तिर्युक्तेत्यर्थः । प्रीत्या चित्तं नल एव वर्तते परं लज्जावशात्कटाक्षेण विलोकयितुं नाशकदिति भावः । प्रभूबभूव, च्वौ दीर्घः ॥

  कथं कथंचिन्निषधेश्वरस्य कृत्वास्यपद्मं दरवीक्षितश्रि ।
  वाग्देवताया वदनेन्दुबिम्बं त्रपावती साकृत सामिदृष्टम् ॥ ३०॥

 कथमिति ॥ त्रपावती सा भैमी निषधेश्वरस्यास्यपद्मं मुखकमलं कथंचिन्महता कष्टेन लज्जाविगमसाहसेन दरवीक्षितश्रि ईषद्विलोकितशोभं कृत्वा वाग्देवताया वदनेन्दुबिम्ब लज्जया सामिदृष्टमर्धदृष्टमकृत । किंचिदृष्ट्वा पुनार्व्यावृत्तत्वाददृष्टसकलशोभं चकारेत्यर्थः । 'त्रपावती' इत्युभयत्र हेतुः । एतां मालां नलकण्ठे स्थापयेत्याशयेन देवीमुखमर्धवीक्षितं चकारेति भावः ॥

  [२]अजानतीवेदमवोचदेनामाकूतमस्यास्तदवेत्य देवी।
  भावस्त्रपोर्मिप्रतिसीरया ते [३] न दीयते लक्षायितुं ममापि ॥३१॥

 अजानतीति ॥ देवी अस्या भैम्याः तत्पूर्वश्लोकसूचितमाकूतमाशयमवेत्य ज्ञात्वा अप्यजानतीव एतां भैमीं प्रति इदमवोचत् । इदं किम्-हे भैमि, त्रपोर्मिप्रतिसीरया लज्जाकल्लोलरूपया जवनिकया ते तव भाव आशयो ममापि (लक्षयितुं) सरस्वत्या अथ च विश्वास्यसखीभूताया अपि (लक्षयितुं) ज्ञातुं न दीयते । त्वल्लज्जावशादतिमूढं यत्सूचयसि तन्मयापि न ज्ञायते । ततः किंचिल्लजां त्यक्त्वा स्पष्टं कथयेति परिहासबुद्ध्या तामेव स्वाशयं वादयितुमवोचदित्यर्थः । अन्यदपि जवनिकाच्छादितं न ज्ञायते । 'वितीर्यते लक्षयितुं न मेऽपि' इति पाठे मे मह्यम् । 'प्रतिसीरा जवनिका' इत्यमरः ॥

  देव्याः श्रुतौ नेति नलार्धनाम्नि गृहीत एव त्रपया निपीता।
  अथाङ्गुलीरङ्गुलिभिर्मृशन्ती दूरं शिरः सा नमयांचकार ॥३२॥

 देव्या इति ॥ देव्याः श्रुतौ कर्णे 'न' इति नलस्यार्धे नाम्नि गृहीत एव भैम्या उच्चारित एव त्रपया निपीता व्याप्ता सा भैमी 'ल' इति द्वितीयमक्षरमुच्चारयितुमशक्ता सती अथानन्तरं स्वस्या अङ्गुलीर्देव्या वाङ्गुलीः स्वीयाङ्गुलीभिरेव मृशन्ती स्पृशन्ती नि-


  1. 'मुदेतुम्' इति जीवातुसंमतः पाठः ।
  2. 'न जानतीवेद' इति जीवातुसंमतः पाठः ।
  3. 'वितीर्यते लक्षयितुं न मेपि' इति जीवातुसुखावबोधामुख्यपाठः ।