पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९७
चतुर्दशः सर्गः।

पक्ष्मचेष्टाकरणादिति भाषमाणमिव । इति किम्-हे भैमि, त्वं आगत्य इह मया चिह्निते नले मिल संयुक्ता भवेति ॥

  नाबुद्ध बाला विबुधेषु तेषु क्षोदं क्षितेरैक्षत नैषधे तु ।
  पत्ये सृजन्त्याः परिरम्भमुर्व्याः संभूतसंभेदमसंशयं सा ॥ २० ॥

 नेति ॥ सा तेषु विवुधेषु देवेषु क्षितेः क्षोदं भूरेणुं लग्नं नाबुद्ध न ददर्श, नैषधे त्वैक्षत ददर्श । देवानां रजःसंबन्धाभावान्नराणां तत्संबन्धादित्यर्थः । तत्रासंशयमुत्प्रेक्षते-(किंभूतम्-) पत्ये नलाय परिरम्भमालिङ्गनं सृजन्त्या ददत्या उर्व्याः सकाशात्संभूतसंभेदमिव संजातसंबन्धमिव । आलिङ्गनवशाद्भूरेणुर्नले लग्न इवेत्यर्थः । पत्ये 'क्रियया यमभिप्रैति-' इति संप्रदानत्वम् ॥

  स्वेदः स्वदेहस्य वियोगतापं निर्वापयिष्यन्निव संसिसृक्षोः।
  हीराङ्कुरश्चारुणि हेमनीव नले तयालोकि न दैवतेषु ॥ २१ ॥

 स्वेद इति ॥ तया नले स्वेद आलोकि, न दैवतेषु देवेषु । किं करिष्यन्निव--संसिसृक्षोः भैम्यालिङ्गनं कर्तुमिच्छोः स्वदेहस्य नलशरीरस्य वियोगतापं भैमीवियोगजनितं ज्वरं निर्वापयिष्यन् (इव) शमयिष्यन् (इव) । भैम्यालिङ्गनोत्सुकनलदेहस्य तापनाशकरत्वादित्यर्थः । उदकं हि तापं शमयति । नलालिङ्गनोत्सुकस्य भैमीदेहस्य वा । देवेषु स्वेदस्याभावात् , नरेषु च तत्सद्भावात् सात्विकस्वेदयुक्तो नलो मया प्राप्त एवेति भैम्या विरहज्वरशान्तिः । उत्प्रेक्षते-चारुण्यत्युत्तमे हेमनि सुवर्णे खचितो हीराङ्कुर इव । अतिगौरदेहरोमकूपस्थस्वेदजलकणझणत्कारो हेमस्थवज्राङ्कुरत्वेनोत्प्रेक्षितः । देवता एव दैवतानि । प्रज्ञादित्वात्स्वार्थे णः(ऽण) । 'स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति षण्ढत्वम् ॥

  सुरेषु मालाममलामपश्यन्नले तु बाला मलिनीभवन्तीम् ।
  इमां किमासाद्य नलोऽद्य मृद्वीं श्रद्धास्यते मामिति चिन्तयेव ॥२२॥

 सुरेष्विति ॥ सा बाला सुरेषु मालाममलां निर्मलामम्लानां चापश्यत्, नले तु मलिनीभवन्ती पूर्वमम्लानां कालक्षेपेणोष्मणा च म्लानां मलिनां च जायमानामपश्यत् । सुराणामम्लानकुसुमत्वादित्यर्थः । उत्प्रेक्षते इति चिन्तयेव मलिनीभवन्तीम् । इति किम्-नलोऽद्य स्वयंवरदिनेऽतिमृद्वीं मत्सकाशादप्यतिमृद्वङ्गीमिमां भैमीमासाद्य प्राप्य मां मालां श्रद्धास्यते किमादरेणाङ्गीकरिष्यति किम् । अपितु नेति ॥

  श्रियं भजन्तां कियदस्य देवाश्छाया नलस्यास्ति तथापि नैषाम् ।
  इतीरयन्तीव तया निरैक्षि सा नैषधे न त्रिदशेषु तेषु ॥ २३ ॥

 श्रियमिति ॥ देवा अस्य नलस्य श्रियं कियद्भजन्तामाश्रयन्तु,अपि तु न किंचिदपि ।