पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९६
नैषधीयचरिते

षवशान्मम भ्रमोऽभूदिति भावः । 'श्लेषवशान्नललीलाः सन्तो लोकपाला गाथाः समाविशन्तीति वा ॥ अन्योन्यं भिन्ना अपि लोकपाला नललीलाः सन्तोऽशेन नृपत्वं प्राप्ताः सन्तः किल एकीभवन्ति । अतो नलस्यैव' लोकपालांशतया तत्र प्रयुक्तानि देवीवचांसि श्लेषं वदन्तीति कवित्वशक्तिविलासा एव ॥

  त्यागं महेन्द्रादिचतुष्टयस्य किमभ्यनन्दत्क्रमसूचितस्य ।
  किं प्रेरयामास नले च तन्मां सा सूक्तिरस्या मम कः प्रमोहः ॥१७॥

त्यागमिति ॥ इयं देवी 'अत्याजि' 'येन' इत्यादिना श्लोकचतुष्टयेन 'त्वं यार्थिनी' 'देवः पतिः-'इत्यादिगाथाद्वयेनापि क्रमेण सूचितस्य प्रत्यायितस्येन्द्रादिनलचतुष्टयस्य पूर्वव्याख्यानप्रकारेण परित्यागं किं कथमभ्यनन्दत् ॥ युक्तमेतदिति स्तौति स्मेत्यर्थः । नले मां पूर्वव्याख्यानप्रकारेण प्रेरयामास च किं, कथं प्रेरयामास । एकेनैव वाक्येन द्वयमपि कथं चकार । आश्चर्यमेतदित्यर्थः। किंशब्दावत्राश्चर्ये । नले च । नल एवेति चकारोऽवधारणार्थो वा । तत्तस्मात्कारणादस्या देव्याः का सूक्तिः शोभनवचननिर्माणचातुरी ।अपितु लोकोत्तरा । मम प्रकृष्टो मोहश्च कः, अपितु सोऽपि लोकोत्तरः । अस्या इयमुक्तिः क्व, मम मोहश्च केत्यर्थः । एवं देव्या इन्द्रादिचतुष्टयस्य स्पष्टं परित्यागेऽभ्यनुज्ञाते नलस्य च वरणेऽभ्यनुज्ञाते ममैवं मोहो न युक्त इत्यर्थः । पूर्वं मोहोऽभूदिदानीं तु निवृत्त इत्याशयः । इन्द्रादित्यागं किमर्थमभ्यनन्दत् , नले च मां किमर्थं प्रेरयामास, उभयमपि तावञ्चकार तदेतन्मदनुग्रहार्थमेवेति भाव इति वा । त्यागम् , 'चजोः-' इति कुत्वम् ॥

 एवं विचारानन्तरं किमभूत्तत्राह-

  परस्य दारान्खलु मन्यमानैरस्पृश्यमानाममरैर्धरित्रीम् ।
  भक्त्यैव भर्तुश्चरणौ दधानां नलस्य तत्कालमपश्यदेषा ॥ १८ ॥

 परस्येति ॥ एषा भैमी तत्कालं देवप्रसादसमये एवंभूतां धरित्रीं पृथ्वीमपश्यत् । किंभूताम्-परस्य नलस्य दारान्पत्नीं मन्यमानैरिव परनारीबुद्ध्यैव अमरैरिन्द्रादिभिरस्पृश्यमानाम् । खलुरिवार्थे । तथा-भूपतित्वाद्भर्तुर्नलस्य भक्त्यैव सेवाबुद्ध्यैव चरणौ दधानां धारयन्तीम् । अन्यापि भक्त्या भर्तुश्चरणौ धारयति । देवत्वात्सहजो भूम्यस्पर्शो मनुष्यत्वात्सहजो भूमिस्पर्शोऽन्यथोत्प्रेक्षितः । देवमनुष्यचिह्ने दर्शिते । 'दारानिव' इति वा पाठः॥

  सुरेषु नापश्यदवैक्षताक्ष्णोनिमेषमुर्वीभृति संमुखी सा।
  इह त्वमागत्य नले मिलेति संज्ञानदानादिव भाषमाणम् ॥१९॥

 सुरेष्विति ॥ सा भैमी संमुखी सती बुद्धिपूर्वं विलोकयन्ती सती सुरेषु अक्ष्णोनिमेषं नेत्रपक्ष्मसंकोचं नापश्यत , उर्वीभृति नले त्ववैक्षत । देवानामनिमेषत्वान्मनुष्याणां च

सनिमेषत्वादित्यर्थः । तत्रोत्प्रेक्षते-किंभूतं निमेषम्-संज्ञानदानादाकारणसूचकाक्षि-