पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९५
चतुर्दशः सर्गः ।

सेति ॥ खलु निश्चितं सा प्रसिद्धा मूर्तिमती भारती सरस्वती देवी इयमेव 'इयं मूतिमती सा भारत्येव' इति भारतीत्वं विधेयम् ॥ यद्यस्मादस्या वाचि कापि लोकोत्तरा भङ्गिः रचनास्ति तस्मादित्यर्थः । यस्मादियमेव मूर्तिमती भारती तस्मादस्या वचने निश्चितं सा कापि भङ्गिरस्तीति वा । तामेव भङ्गीमाह-यत् श्लिष्टमुभयसंबद्धं वचो निगद्यास्पष्टमुक्त्वा वासवादीनादृत गौरवेणावर्णयत् । विशिष्य विशेषं कृत्वा । तेभ्यो विशिष्य वा । यत् 'अत्याजि-' इत्यादिश्लोकचतुष्टयेन मे मम मह्यं वा नैषधमप्यवादीत् । सर्वलोकपालांशस्य नलस्यैव वर्णनं युक्तमिति भावः॥

  जग्रन्थ सेयं मदनुग्रहेण वचःस्रजः स्पष्टयितुं चतस्रः ।
  द्वे ते नलं लक्षयितुं क्षमेते ममैव मोहोयमहो महीयान् ॥ १५ ॥

 जग्रन्थेति ॥ सेयं वाणी मयि मम वाऽनुग्रहेण कृपया स्पष्टयितुं नलं स्पष्टं ज्ञापयितुं याः चतस्रः 'अत्याजि-' इत्यादीर्वचःस्रजः वचनमाला जग्रन्थ ससर्ज, तासु मध्ये ते द्वे वचःस्रजौ 'नामग्राहं मया नलमुदीरितम्' (१३।२९) 'नले सहजरागभरात्' (१३।३०) इत्येवंरूपे, 'महीमहेन्द्रः (१३।२८) 'नलमुदीरितम् (१३।२९)इत्येवंरूपे वा नलं लक्षयितुंः ज्ञापयितुं क्षमेते समर्थे भवतः । अहो आश्चर्ये-मम एवायमेतावन्तं कालं महीयान्मोह अबोधः । 'नले स्पष्टं कथितेऽप्येतावन्तं कालं मम निश्चयो नाभूदित्याश्चर्यमित्यर्थः । पूर्वोक्ता एव चतस्रो वाचःतस्रजः स्पष्टयितुं तदर्थं स्पष्टीकर्तुं ये द्वे ते वचःखजौ 'त्वयार्थिनी' 'देवः पतिः' (१३।३३-३४) इत्येवंरूपे सेयं देवी जग्रन्थ, ते द्वे वचःस्रजौ नलं लक्षयितुं क्षमे समर्थे । त्वं यार्थिनी' (१३।३३) इत्यनेन प्रथमव्याख्याने स्फुटं नलस्यैव प्रतिपादनाद्व्याख्यानान्तरेच देवान्परितोष्य संत्यज्य वा (न)ल एव स्वीकरणीय इति यावदर्थं नलस्यैव प्रतिपादनात् 'देवः पतिः-' इत्यनेनापि लोकपालांशत्वान्नलस्यैव पञ्चरूपत्वसंभवादिन्द्रादेश्चासंभवान्नलादन्यस्तव कतरो वरः, अपितु 'अन्यो नास्ति' इत्यपि नलस्यैवप्रतिपादनादित्यर्थ इति वा । अत्र पूर्वस्तच्छब्दो विशेष्यवचःस्रक्परामर्शार्थः । उत्तरस्तु तत्परामर्शकोपि विधेयसंस्पर्शी । यत्तदोश्च नित्यसंबन्धाद्यच्छब्दः संबध्यते । 'श्रन्थिग्रन्थिदम्भिस्वञ्जां चेति वक्तव्यम्' इति नित्यमपितो लिटः कित्त्वविधानात् 'जग्रन्थ' इति रूपम् । 'संयोगात्परस्य लिटो वा कित्त्वमिति केचित्' इति अपितो लिटः कित्त्वविधानाद्वा नलोपाभावः समर्थनीयः । युक्त्यन्तरेण वा समाधातव्यम् ॥

  श्लिष्यन्ति वाचो यदमूरमुष्याः कविवशक्तेः खलु ते विलासाः।
  भूपाललीलाः किल लोकपालाः समाविशन्ति व्यतिभेदिनोऽपि ॥१५॥

 श्लिष्यन्तीति ॥ अमुष्या देव्या अमूः पूर्वोक्ता वाचः यदनेकार्थतया श्लिष्यन्ति श्लेषं भजन्ते खलु निश्चितं कवित्वशक्तेः काव्यनिर्माणसहप्रतिभायाः विलासा विजृम्भणानि । कवित्वशक्तिं विना श्लेषवचोरचना निर्मातुमशक्येत्यर्थः ॥ किल यस्माद्व्यतिभेदिनोऽपि परस्परापेक्षया नलापेक्षया वा विशेषेण सहस्रनेत्रत्वादिनाऽतितरां भिन्ना अप्यमी लोकपाला भूपालस्य नलस्य लीला विलासान्समाविशन्त्यनुभवन्ति नलाकारं बिभ्रति । अथच नलवर्णकेषु श्लोकेषु मूर्तीभूय प्रतिष्ठा इव दृश्यन्त इत्यर्थः । अतः श्ले-