पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९४
नैषधीयचरिते

न्येन, या च 'येनामुना-' (१३।३०) इत्यादिरग्निनैव तुल्या नत्वन्येन, नलस्य संबन्धिनीं मिलितां समुदितां चतुष्टयरूपां तां गाथामेव तदा देवप्रसादादनन्तरं सैषा भैमी नलस्य विशेषायेन्द्रादिभ्यो भेदज्ञानाय मेने । इन्द्रादीनामेकैकस्यामेव गाथायां वर्तमानत्वात् , नलस्य तु सर्वत्रानुगतत्वात् 'अत्याजि-' इत्यादिगाथाचतुष्टयप्रतिपाद्यो यः, स एव नल इति तामेव गाथां मिलितां नलस्य भेदज्ञापिकामज्ञासीदिति भावः । या नलस्य गाथेति वा संबन्धः । या पाशिनैवेन्द्रेणैव, यमेनैवाग्निनैव समा गाथा नलस्य संबन्धिनी मिलितां तामेवानलस्य नलव्यतिरिक्तस्य इन्द्रादेर्भेदाय मेने । मिलितया तया कृत्वा नले निश्चिते सति नान्तरीयकत्वात्तदितरे देवा अपि तयैव निश्चिता इति भाव इति वा । मिलितां तामेव गाथां नलस्य विशेषाय तथा नलेतरस्येन्द्रादेर्भेदाय मेने इति वा व्याख्येयम् । या पाशिनैवेत्यादेरेवकारान्परस्परसमुच्चयार्थानप्यङ्गीकृत्य या नलसंबन्धिनी गाथा पाशिनापि, इन्द्रेणापि, यमेनापि, अग्निनापि, तुल्यार्थाभूत् तां 'देवः पतिः-' इत्यादि मिलितां पञ्चार्थीं गाथां देवप्रसादादनन्तरं नलस्यैव विशेषाय मेने । देवैः प्रसन्नैः स्वीयस्वीयाकारेषु धृतेषु पूर्वं पञ्चार्थत्वेन प्रतिभातामप्येदानीमेकस्य नलस्यैव प्रतिपादिकामज्ञासीदिति भाव इति । 'देवः पतिः' इतीयमेव गाथा विषय इति ज्ञेयम् । अवधारणार्थेष्वप्येका(व)कारेष्वियमेव गाथा विषय इति व्याख्येयम् । अयं श्लोकः 'शेषं नलम्' 'एकैकवृत्तेः' इति द्वाभ्यां श्लोकाभ्यां स[१]मानार्थः । अनलस्येति प्रत्येकपर्यवसायित्वादेकवचनम् ॥

  निश्चित्य शेषं तमसौ नरेशं प्रमोदमेदस्वितरान्तराभूत ।
  देव्या गिरांभावितभङ्गिराख्यञ्चितेन चिन्तार्णवयादसेयम्॥१३॥

 निश्चित्येति ॥ असौ भैमी शेषमवशिष्टं तं पञ्चमं पूर्वोक्तप्रकारेण नरेशं नलं निश्चित्य प्रमोदेन प्रकृष्टहर्षेण भेदस्वितरमत्यन्तपरिपुष्टं सोल्लासमान्तरं मानसं यस्या एवंभूताभूत् । नले निश्चिते सति नितरां हृष्टाभूदित्यर्थः । रलयोः सावर्ण्यान्नलश्चासावीशश्च तमिति वा । अनन्तरं च देव्याः सरस्वत्याः गिरां वचनानां भाविता पर्यालोचिता भङ्गिः प्रकारो यया विज्ञाताशया । गिरां देव्याः सरस्वत्या वा विज्ञातवचोरचनाविशेषा । सती नलनिश्चयात्पूर्वं चिन्तार्णवयादसा चिन्तासमुद्रजलजन्तुरूपेण नलनिश्चये सत्यपि तत्प्राप्त्युपायचिन्तासमुद्रजलचरेण वा चित्तेन मनसा इदं वक्ष्यमाणप्रकारमाख्यदूचे । मनस्येवैवमचिन्तयदिति भावः । 'चित्रार्णव-' इति पाठे विचित्रदेवीवचनानुस्मरणजनिताश्चर्यसमुद्रजलचरेणातिसाश्चर्येणेत्यर्थः॥

 किमाख्यदित्याह-

  सा भङ्गिरस्याः खलु वाचि कापि यद्भारती मूर्तिमतीयमेव ।
  श्लिष्टं निगद्याहत वासवादीन्विशिष्य मे नैषधमप्यवादीत् ॥१४॥


  1. 'केषुचिदादर्शेषु 'शेषं नलम्' 'एकैकवृत्तेः' इति गाथाद्वयेन गतार्थत्वादियं गाथा नास्त्येव' इति सुखवाबोधा। अत एव जीवातौ न व्याख्याता ।