पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९२
नैषधीयचरिते

  भक्त्या तयैव प्रससाद तस्यास्तुष्टं स्वयं देवचतुष्टयं तत् ।
  स्वेनानलस्य स्फुटतां यियासोः फूत्कृत्यपेक्षा कियती खलु स्यात् ।। ८ ॥

 भत्त्येति ॥ तस्याः पातिव्रत्यादिगुणैरादावेव भक्तिनिरपेक्षं स्वयमात्मनैव तुष्टं तदिन्द्रादिदेवचतुष्टयं तस्यास्तयैवाल्पीयस्यापि भक्त्या पुनः प्रससाद प्रसन्नमभूत् । अल्पीयस्या भक्त्या प्रसन्नतायां दृष्टान्तमाह-खलु यस्मात्स्वेनात्मनैव स्फुटतां प्राकट्यं यियासोर्यातुमिच्छतो लब्धबहुसंधुक्षणतया आसन्नप्रज्वलनस्यानलस्य वह्नेः कियती संधुक्षणार्थं फूत्कृतेर्मुखपवनस्यापेक्षा स्याद्भवेत् । अपित्वल्पैव । तादृशोग्निर्द्वित्रैरेव फूत्कारैः संधुक्षितो दीप्यतेतरामित्यर्थः । तस्मात्स्वतःप्रसन्नस्याल्पयापि भक्त्या पुनः प्रसन्नत्वं युक्तमित्यर्थः । 'तस्याश्चरित्रादथ ते पवित्रात्प्रागेव हृष्टा झटिति प्रसेदुः' इत्यपि पाठः स्प[१]ष्टार्थः॥

 प्रसादफलमाह-

  प्रसादमासाद्य सुरैः कृतं सा सस्मार सारस्वतसूक्तिसृष्टेः ।
  देवा हि नान्यद्वितरन्ति किंतु प्रसद्य ते साधुधियं ददन्ते ॥९॥

प्रसादमिति ॥ सा भैमी सुरैः कृतं प्रसादमासाद्य सरस्वत्या इमाः सारस्वत्यस्ताश्च ताः सूक्तयश्च शोभनोक्तयः श्लेषवाक्यानि तासां सृष्टेर्निर्माणस्य । रचनामित्यर्थः । सस्मार । श्लेषार्थे संदेहं परित्यज्य गाथाक्रमेणेन्द्रादींश्चतुरोपि ज्ञात्वा अयं पञ्चमो नल इत्यजानादित्यर्थः । देवीवचनस्मरणरूपः को नाम प्रसाद इत्यत आह-हि यस्माद्देवा अन्यत्किंचिन्न वितरन्ति ददति किंतु देवाः प्रसद्य प्रसन्ना भूत्वा साध्वीं कार्यसाधिकां धियं बुद्धिमेव ददन्ते । तदुक्तं भारते-'न देवा दण्डमादाय रक्षन्ति पशुपालवत् । यं तु रक्षितुमिच्छन्ति सुबुद्ध्या योजयन्ति तम् ॥' इति । तस्मादयमेव प्रसादो युक्त इत्यर्थः। सृष्टेः, 'अधीगर्थ-'इति कर्मणि षष्ठी। ददन्ते, 'दद दाने' इत्यस्य रूपम् ॥

 स्मरणमेव विशदयति-

  शेष नलं प्रत्यमरेण गाथा या या समार्था खलु येन येन ।
  तां तां तदन्येन सहालगन्तीं तदा विशेष प्रतिसंदधे सा ॥ १०॥

 शेषमिति ॥ शेषं पञ्चमं सत्यनलं प्रति लक्ष्यीकृत्य 'ब्रूमः किम्-' (१३ स. ३ श्लो.) इत्यादिः 'आकर्ण्य-'(१३।८) इति यावत्, 'एष' (१३।१०) इत्यादिः 'साधारणीम्-' (१३१४ ) इति यावत्, 'दण्डम्-, (१३।१६ ) इत्यादिः 'गुम्फ:-' (१३।२०) इति यावत्, 'या सर्वतः-' (१३३२२) इत्यादिः 'शङ्का-(१३२२६) इति यावत् , या या गाथा प्रसादात्पूर्वं येन येनेन्द्रादिदेवेन सह समार्था तुल्यार्था ['सरस्वत्योक्ता' इति शेषः]


  1. 'अत्र वाक्यद्वये भक्तिफूत्कृत्योः कार्यानपेक्षितलक्षणसमानधर्मस्यैव कारको यच्छब्दाभ्यां बिम्बप्रतिबिम्बतयोक्तेदृष्टान्तालंकारः' इति जीवातुः।