पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
नैषधीयचरिते

न्सति-तस्मिन्नले क्रमेणावतीर्णदृक्पथे दृङ्मात्रा(र्गा)गोचरे सति । किंभूतैर्दृष्टिप्रकरैः-अनुव्रजन्ननुगच्छन्यो बन्धुसमाज इष्टसमूहस्तस्य बन्धुभिः सदृशैः । वनान्तः पर्यन्तोऽवधिर्यथा भवति तथेति क्रियाविशेषणं वा । बन्धुभिरपि वनान्तमुदकसमीपं, क्रीडावनसमीपं वा साभिलाषं गत्वा तत्रैव पथि स्थित्वा पथिकेऽदृष्टे सति निवर्त्यते । 'जीवनं भुवनं वनम्' इत्यमरः। (पुरौकसामिति 'पॄ पालने' इत्यस्मान्मूलविभुजादेराकृतिगणत्वात्कप्रत्यये 'उदोष्ठ्यपूर्वस्य' इत्युत्त्वे रपरत्वे पुर इत्यदन्तेन पुरे पुरं वा ओको येषामिति 'सप्तमीविशेषणे बहुव्रीहौ' इत्यत्र सप्तमीग्रहणात्तज्ज्ञापकात्, लक्षणया वा बहुव्रीहौ सुब्लुकि 'वृद्धिरेचि' इति वृद्धौ सिद्धमिष्टं रूपम्।) दृक्पथे इति 'ऋक्पूर्-' इति समासान्तः॥

ततः प्रसूने च फले च मञ्जुले स संमुखस्थाङ्गुलिना जनाधिपः ।
निवेद्यमानं वनपालपाणिना व्यलोकयत्काननकामनीयकम्॥७६॥

 तत इति ॥ ततो वनप्रवेशानन्तरं स जनाधिपो नलः काननस्य क्रीडावनस्य कामनीयकं रमणीयकं व्यलोकयत्पश्यति स्म । किंभूतम्-वनपालस्योद्यानरक्षकस्य पाणिना हस्तेन निवेद्यमानं ज्ञाप्यमानम्। किंभूतेन-मञ्जुले रमणीये प्रसूने पुष्पे फले च (जातावेकवचनम्) संमुखस्थाभिर्मुखाङ्गुलिर्यस्य । कामनीयकमिति भावे 'योपधात्-' इति वुञ् । गुणवाचित्वात् 'पूरणगुण-' इति समासनिषेधेऽपि 'संज्ञाप्रमाणत्वात्' इति ज्ञापकबलात्समासः

फलानि पुष्पाणि च पल्लवे करे वयोतिपातोद्गतवातवेपिते ।
स्थितैः समादायमहर्षिवार्धकाद्वने तदातिथ्यमशिक्षि शाखिभिः ७७

 फलानीति ॥ वने विद्यमानैः शाखिभिर्वृक्षैर्महर्षिवार्धकाद्वृद्धमहार्षिसमूहात्तदातिथ्यं तस्य नलस्य पूजाशिक्षि शिक्षितेव । किंभूतैः शाखिभिः-चयोतिपातेन पक्षिपतनेनोद्गत उच्छ्रितो यो वातस्तेन वेपिते पल्लवे शाखाग्रलक्षणे एव करे हस्ते पुष्पाणि फलानि च समादाय गृहीत्वा स्थितैः । वृद्धमहर्षिसङ्घोऽपि वृद्धत्वादेव चले हस्ते फलानि पुष्पाणि च गृहीत्वा राजपूजार्थं यथा तिष्ठति, तथा वृक्षा अपि । उद्याने महर्षयस्तिष्ठन्तीति सूचितम् । विजने विद्याभ्यासश्च । फलपुष्पयुक्ता वृक्षास्तिष्ठन्तीति भावः । वृद्धानां समूहो वार्धकम् 'गोत्रोक्षो-' इति सूत्रे 'वृद्धाच्च' इति वक्तव्याद्वुञ् । महर्षीणां वार्धकमिति षष्ठीसमासः । सामर्थ्याद्वृत्त्यन्तर्गतस्यापि वृद्धशब्दस्य यथाकथंचिन्महर्षिशब्देनान्वयः। महर्षिपक्षे वयसस्तारुण्यस्य । 'आख्यातोपयोगे' इत्यपादानत्वम् । आतिथ्यम् । तादर्थ्ये 'अतिथेर्ञ्यः' इति ञ्यः । शाखिनः व्रीह्यादित्वादिनिः॥


१ अयं पाठः कुत्रचिन्नास्ति । २ 'अत्रानुप्रासः सहोक्तिश्चालंकारः' इति साहित्यविद्याधरी । ३ 'अत्र जात्यनुप्रासावलंकारौ' इति साहित्यविद्याधरी । 'स्वभावोक्तिः' इति जीवातुः। ४ 'अत्र प्रतीयमानोत्प्रेक्षा श्लेषश्चालंकारः' इति साहित्यविद्याधरी । 'उत्प्रेक्षेयम्, सा च व्यञ्जकाप्रयोगाद्गम्या, पूर्वोक्तरूपकश्लेषाभ्यामुत्थापिता चेति संकरः' इति जीवातुः।