पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८७
त्रयोदशः सर्गः।

देव्याः करे वरणमाल्यमथार्पये वा
 यो वैरसेनिरिह तत्र निवेशयेति ।
सैषा मया मखभुजां द्विषती कृता स्या-
 त्स्वस्मै तृणाय तु विहन्मि न बन्धुरत्नम् ॥ ५२ ॥

 देव्या इति ॥ अथवा इह स्वयंवरे एतेषु पञ्चसु मध्ये वा यो वैरसेनिः सत्यनलः तं त्वं तावज्जानासि अतस्तत्र एतां मालां निवेशय निक्षिपेत्युक्त्वा देव्याः सरस्वत्याः करे वरणमाल्यं वरणमधूकमालामर्पये ददामीति संभावना । स्वयमेवैतद्दूषयति-एवं क्रियमाणे सा एषा देवी मया मखभुजां देवानामिन्द्रादीनां द्विषती वैरिणी कृता स्यात् । तन्मायाप्रकटनादित्यर्थः। भवतु नाम सा तद्वैरिणी स्वकार्यसिद्धिस्तु साध्येत्यत आह- तु पुनः तृणतुल्यायातिनिःसाराय स्वस्मै स्वरूपाय अकिंचित्करात्मकार्यसिद्धये बन्धुरत्नं सुहृन्मध्येऽतिश्रेष्ठां देवीं न विहन्मि । मम यत्किंचिद्भवतु, परं तु देवद्वेषरूपं मित्रविघातं न करोमीत्यर्थः । अन्योऽपि सुज्ञस्तृणार्थं रत्नं न विनाशयति । द्विषती, 'द्विषोऽमित्रे' इति शतरि उगित्त्वान्ङीप् । मखभुजां, 'द्विषः शतुर्वा' इति षष्ठी ॥

यः स्यादमीषु परमार्थनलः स माला-
 मङ्गीकरोतु वरणाय ममेति चैनाम् ।
तं प्रापयामि यदि तत्तु विसृज्य लज्जां
 कुर्वे कथं जगति शृण्वति ही विडम्बः ॥ ५३ ॥

 य इति ॥ अमीषु पञ्चसु भवत्सु मध्ये यः परमार्थनलः सत्यनलः स्यात् स मम वरणाय मालामङ्गीकरोत्वित्येवं प्रकारेण इत्युक्त्वा चेति वा । यदि एनां च माला तत्र तेषु मध्ये तं सत्यनलं प्रापयामि, तत्पुनर्लज्जां विसृज्य कथं कुर्वे । अपित्वेवं कर्तुमयुक्तम् । यतः-जगति सर्वस्मिन्सभाजने शृण्वति सति ही कष्टं विडम्बः । लज्जात्यागादतिपरिहासो भविष्यतीति शेषः । सर्वेषां समक्षमेवं वचने लजात्यागात्सर्वेऽप्युपहसिष्यन्तीत्यर्थः । ही इति खेदे । हिर्यस्मादर्थे, इः खेदे इति वा । इति चेति समुदायः प्रकारे। यदि चेति वा (?)॥

इतरनलतु[१]लाभागेष शेषः सुधाभिः
 स्नपयति मम चेतो नैषधः कस्य हेतोः।
प्रथमचरमयोर्वा शब्दयोर्वर्णसख्ये
 विलसति चरमेऽनुप्रासभासां विलासः ॥ ५४॥


  1. 'तुलायामेष' इति सुखावबोधासंमतः पाठः !