पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
नैषधीयचरिते

देवोपकाराभावादन्येषां चासमर्पणादित्यर्थः । कूपपतितानामपि पुस्तकानामनुपकारित्वमेव । 'प्रतिपद्य स्थितानाम्' इति समानकर्तृकत्वम् ॥

यस्येश्वरेण यदलेखि ललाटपट्टे
 तत्स्यादयाग्यमा योग्यमपास्य तस्य ।
का वासनास्तु बिभृयामिह यां हृदाहं
 नार्कातपैर्जलजमेति हिमैस्तु दाहम् ॥ ५० ॥

 यस्येति ॥ ईश्वरेण यस्य प्राणिनो ललाटपट्टे यदयोग्यमनुचितमप्यलेखि लिखितं तदयोग्यमपि तस्य योग्यमुचितमर्थमपास्य प्रतिक्षिप्य स्याद्भवेत् । योग्यमर्थं परित्यज्य तत्परिहारेण स्वयमेवायोग्यमपि भवेदिति यावत् । अतो योग्यतया कार्यकारणाभावे सति इह नलानेकत्वसंदेहेन निश्चयार्थं यां वासनां युक्तिमहं हृदा बिभृयां धारयेयं सा का वासना युक्तिरस्तु भवतु । अपि तु एवंविधा युक्तिर्नास्ति । चित्तेनान्यथाकर्तुं विचारितेऽपि ललाटपट्टलिखितादन्यथा न भवतीत्यर्थः। योग्यमप्यपास्यायोग्यमेव भवतीत्यत्र दृष्टान्तमाह-यतः जलजमम्भोजं अर्कातपैरुष्णैरपि सूर्यकिरणैर्दाहं न एति, हिमैस्तु पुनर्दाहं गच्छति । उष्णस्पर्शो दाहकः, शीतस्पर्शस्तु दाहशमक इति लोके दृष्टं, तदिदं विपरीतं जातं विरुद्धकार्योत्पत्तेर्विषमम् । नलस्य मम वा ललाटे यदीश्वरेणायोग्यमेव लिखितं, तर्हि परस्परयोग्यं परस्परं विहाय तस्य मम चायोग्यमेव भविष्यतीति कं प्रकारं चित्ते धारयिष्यामि । अपि तु न कमपीति देवानां न कोप्यपराध इति भावः॥

 तर्हि कल्पद्रुमो याच्यतामित्यत आह-

इत्थं यथेह मदभाग्यमनेन मन्ये
 कल्पद्रुमोऽपि स मया खलु याच्यमानः ।
संकोचसंज्वरदलाङ्गुलिपल्लवाग्र-
 पाणीभवन्भवति मां प्रति बद्धमुष्टिः॥५१॥

 इत्थमिति ॥ इह नलैकत्वेऽपि समये वा इत्थमनेन नलानेकत्वभवनप्रकारेण यथा यादृक् ममाभाग्यं नलानिश्चयाद्यथा दैवाभावो दृश्यते अनेन हेतुना प्रकारेण वा सोऽतिवदान्यः कल्पद्रुमोऽपि खलु निश्चितं मया नलं याच्यमानः सन् मां प्रति बद्धमुष्टिरतिकार्पण्यसंकुचत्करो भवतीत्यहं मन्ये । किंभूतः-संकोच एव संज्वरः संतापो येषामेवंविधानि दलानि किसलयान्येवाङ्गुलयो येषामेवंभूताः पल्लवा एवाग्रपाणयो हस्ताग्राणि यस्य एवंभूतोनेवंभूत एवंभूतो भवन् । अन्यस्यापि बद्धमुष्टेरङ्गुलयः संकुचिता भवन्ति । कल्पवृक्षः कल्पितदानशीलोऽपि मद्भाग्यवशान्मां प्रत्यदातैव भवेदिति भावः । अदातृत्वनिश्चयात् 'भवति' इति वर्तमानवत्प्रत्ययः॥