पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
प्रथमः सर्गः।

 अचीकरच्चारु हयेन या भ्रमीर्निजातपत्रस्य तलस्थले नलः ।
मरुत्किमद्यापि न तासु शिक्षते वितत्य वात्यामयचक्रचङ्क्रमान् ७३

 अचीकरदिति ॥ नलो निजातपत्रस्य स्वकीयछत्रस्य तलस्थलेऽधोभागे हयेनाश्वेन चारु सम्यक् (मनोज्ञा) या भ्रमीर्भ्रमणान्यचीकरत्कारयामास, तासु विषये मरुद्वायुरद्यापि वात्यामया वातसमूहरूपाश्चक्राकाराश्चङ्क्रमा भ्रमणानि तान्वितत्य किं न शिक्षते। भ्रमिविषये ज्ञाने शक्तो भवितुं नेच्छति किम् , अपितु शक्तो भवितुमिच्छत्येव । परमद्यापि शक्तो नाभूदित्यर्थः । वात्यावर्तं कुर्वन्वायुरपि भ्रमिज्ञाने शक्तो भवितुमिच्छतीवेत्युत्प्रेक्षा । एतेनाश्वस्य चलनक्रियादाक्ष्यं सत्त्ववत्त्वं चोक्तम् । सत्त्वरहितो न संग्राह्य इति 'तल्लक्षणगुणैः श्लाघ्यः किं सत्त्वेन विना हयः । पञ्चेन्द्रियसमेतोऽपि यथा कायो विनात्मना ॥' इति सारसिन्धौ । हयेनेति 'हृक्रो:-' इति विकल्पितत्वात्कर्मत्वाभावः। भ्रमीरिति कृष्यादित्वादिक् । शिक्षत इति सन्नन्ताच्छकेः 'शिक्षेर्जिज्ञासायाम्' इति वक्तव्यात्तङ् । चङ्क्रमान् [इति ] यङन्ताद्धञि अतोलोपे 'यस्य हलः' इति यलोपः। वितत्य शिक्षते इति समानकाले क्त्वा । पाशादित्वाद्वात्या । ततस्ताद्रूप्ये मयट् । ताः सुशिक्षत इति पाठे ता भ्रमीः सु शोभनं किं न शिक्षते जिज्ञासते ॥

विवेश गत्वा स विलासकाननं ततः क्षणाक्षोणिपतिर्धृतीच्छया ।
प्रवालरागच्छुरितं सुषुप्सया हरिर्घनच्छायमिवार्णसां निधिम्॥७४॥

 विवेशेति ॥ ततोऽनन्तरं स क्षोणिपतिः पृथ्वीपतिर्नलः प्रवालरागेण नवपल्लवलौहित्येन छुरितं विचित्रं घनच्छायं निबिडच्छायं विलासकाननं क्रीडावनं गत्वा प्राप्य क्षणाच्छीघ्रं धृतीच्छया प्रीत्यभिलाषेणात्र मम संतापो निवर्तिष्यते इत्यभिलाषेण, अन्यत्र व्यासङ्गाद्धैर्यं भवेदिति वासनया वा विवेश । कः कया कमिव-विष्णुः सुषुप्सया स्वसुमिच्छया प्रवालरागेण विद्रुमलौहित्येन छुरितं श्यामत्वाद्धनस्य मेघस्य छायेव छाया यस्य तम् । एवंभूतमर्णसां निधिं समुद्रमिव । अथ च पल्लवताम्रं जलस्थानभूतं निबिडच्छायं वनं सुषुप्सया हरिः सिंहो यथा विशति, तथेत्यर्थः । क्षोणिपतिरिति 'ङ्यापोः-' इति ह्रस्वः । ह्रस्वान्त एव वा । दीर्घान्तस्तु 'कृदिकारादक्तिनः' इति ङीषन्तत्वात् ॥

वनान्तपर्यन्तमुपेत्य सस्पृहं क्रमेण तस्मिन्नवतीर्णदृक्पथे।
न्यवर्ति दृष्टिप्रकरैः पुरौकसामनुव्रजन्बन्धुसमाजबन्धुभिः ॥ ७५ ॥

 वनेति ॥ पुरौकसां नगरवासिनां दृष्टिप्रकरैर्नेत्रसमूहैर्नलावलोकनार्थं सस्पृहं साभिलाषं वनान्तस्य वनस्वरूपस्य पर्यन्तं मर्यादामुपेत्य गत्वा न्यवर्ति निवृत्तम् । कस्मि-


 १ चारु इत्यस्य मनोज्ञार्थकत्वेन भ्रमिविशेषणत्वे द्वितीयापत्तिः स्यात्, अतः चारु इत्यस्य क्रियाविशेषणत्वमेवोचितम् । २ 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी । ३ 'अम्भसाम्' इति तिलकसंमतः पाठः । ४ 'अत्रोपमाश्लेषोक्तिरलंकारः' इति साहित्यविद्याधरी ।