पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रस्तावना। वरं प्रज्वलिते वहावबायानेहितं(?) वपुः । न पुनर्गुणसंपन्ने कृतः स्वल्पोऽपि मत्सरः ॥ वरं सा निर्गुणावस्था यस्यां कोऽपि न मत्सरी । गुणयोगे तु वैमुख्यं प्रायः सुमनसामपि । तस्मात् खला यूयं गच्छत । एवं(नं) महात्मानं प्रत्येकं स्वगृहेषु सत्कुरुत, तदा श्रीहर्षोऽपि प्राग्वत्- यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्तःकरणहरणं केव कुरुते । मदुक्तिश्चेतश्चेन्मदयति सुधीभूय सुधियः किमस्या नाम स्यादरसपुरुषाराधनरसैः ।। इति । ललष्वि(क्षि)रे पण्डिताः सर्वे । गृहं नीत्वा सत्कृत्यानुनीय राज्ञा च सत्कार्य तैः प्रहितः श्रीहर्षः काशीम् । मिलितो जयन्तचन्द्राय । उक्तं सर्वम् । तुष्टः सः। प्रसृतं नैषधं लोके ॥ अत्रान्तरे जयन्तचन्द्रस्य पद्माकरनामा प्रधानवरः श्रीअणहिल्लपुरं गतः । तत्र सरस्तटे रजकख्या(क्षा)लितायां शाटिकायां नर्नुकायां (?) केतक्यामिव मधुकरकुलं निलीयमानं दृष्ट्वा विस्मितोऽप्राक्षीद्रजकम्-'यस्या युवतेरियं शाटी तां मे दर्शय । तस्य हि मन्त्रिणस्तत्पद्मिनीत्वे निर्णयस्थं मनः । रजकेन सायं तस्मै तद्गृहं नीत्वा तामर्पयित्वा तत्वा- मिनी सूहबदेविनाम्नी शालापतिपत्नी विधवा यौवनस्था सुरूपा दर्शिता । तां श्रीकुमार- पालपार्थादुपरोध्य तद्गृहान्नीत्वा सोमनाथयात्रां कृत्वा काशीं गतस्तां पद्मिनी जयन्तचन्द्र- भोगिनीमकरोत् । सूहवदेविरिति ख्यातिमगात् । साच सगर्वा विदुषीति कृत्वा कलाभा- रतीति पाठयति लोके । श्रीहर्षोपि नरभारतीति पठ्यते । तस्य तन्न सहते सा मत्सरिणी । एकदा ससत्कारमाकारितः श्रीहर्षो भणितश्च 'त्वं कः' । श्रीहर्षः-'क- लासर्वज्ञोहम्' । राझ्याभाणि-तर्हि उपानही परिधापय' । को भावः-यद्ययं 'न वेद्मि' इति भणति द्विजत्वात् , तर्हि अज्ञः । श्रीहर्षेणाङ्गीकृतम् । गतो निलयम् । तरुवल्कैर्यथा- तथा परिकर्मितैः सायं लोलाक्षः सन् दूरस्थः स्वामिनीमाजूवत् , चर्मकारविधिनोपानही पर्य- दीधपत् 'अभ्युक्षणं विनिक्षिपध्वं, चर्मकारोहम्' इति वदन् । राजानमपि तां कुचेष्टां ज्ञापयित्वा खिन्नो गङ्गातीरे संन्यासमग्रहीत् । सा च सूहवदेविः साम्राज्येशा पुत्रमजनयत् । सोपि यौवनमाससाद । धीरः परं दुर्नय- मयः । तस्य च राज्ञो विद्याधरो मन्त्री । स च चिन्तामणिविनायकप्रसादात्सर्वधातुहैमत्वक- रणप्रख्यातमाहात्म्यस्पर्शपाषाणलाभात् ८८०० विप्राणां भोजनदातेति लघुयुधिष्ठिरतया १ तथाचोक्तं सप्तदशसर्गसमाप्तौ-'काश्मीरैर्महित चतुर्दशतयीं विद्यां विदद्भिर्महाकाव्ये' इति ।। २