पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७९
त्रयोदशः सर्गः।

असत्, सदसत् , सदसद्विलक्षणमिति पक्षचतुष्टयम् ॥ * ॥ सद्वादिनः सांख्याः। असद्वादिनो बौद्धाः। सदसद्वादिनो नैयायिकाः। प्रपञ्चानित्यत्ववादिनो वेदान्तिनः । न सत् बाधानुपपत्तेः। नहि सद्जतं गगनादिकं वा वाध्यते । नचासत् प्रतिभासानु. पपत्तेः। नात्यन्तासच्छशशृङ्गं कदाचिदप्यवभासते । नच सदसदात्मकमुभयरूपं परस्परविरोधात् । नासत्सद्वाऽसद्भवितुमहर्ति । उभयरूपमपि न भवतीत्यपि वक्तुमयुक्तमित्याद्यपि ज्ञातव्यम् ॥ * ॥ सांख्या हि प्रतिशरीरं भिन्नाशुद्धज्ञानस्वभावान्बहूनात्मन इच्छन्ति । नैयायिका अपि प्रतिशरीरं भिन्नान्सर्वव्यापकाञ्ज्ञानादिनव- विशेषगुणवत आत्मन इच्छन्ति । आर्हतास्तु प्रतिशरीरं भिन्नान्देहपरिमाणान्संकोचविकासशीलान्बहूनात्मनोऽङ्गीकुर्वन्ति । बौद्धाश्च प्रतिदेहं भिन्नान्क्षणिकज्ञानसंततिरूपान्बहूनेवात्मन इच्छन्ति ॥ * ॥ भैमीप्राप्त्यभिलाषिणि सत्यतरे नले नलसंव- न्धिन्यां विमतौ सत्यामपि सा श्रद्धां न दधे । अपितु दधावेव । अनेकनलदर्शने सत्ये पञ्चमकोटिस्थे सत्ये नले 'अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते मनः' इति न्यायेनायमेव प्रायेण सत्यनलो भविष्यतीति तस्या मनसि बुद्धिरुदभूदित्यर्थः । मतानां विमतावपि सत्यतरेऽद्वैततत्त्वे लोक इव । लोकः परीक्षको जनो यथा श्रद्धां धत्ते तथेति संबन्धः। 'प्राप्तुम्' इति पाठे निषधराटू नल इन्द्रादिचतुष्टये भैमीप्रतारणार्थ स्वीयस्वरूपधारणात्तां स्वस्मै प्राप्तुं न यच्छति सति तल्लाभशंसिनि भैमीप्राप्त्यभिलाषिणि पञ्चमकोटिस्थे अर्थादात्मनि श्रद्धां निश्चयं न दधे । अर्थाद्भैमी प्राप्तुम् । एतस्मिंश्चतुष्टये प्रतिबन्धके सति इयं मया कथंकारं प्राप्यते । अपि तु नेति तस्य बुद्धिरुदभूदित्यर्थः । मतानां विमतौ सत्यां सदसदादिपक्षचतुष्टये तां सम्यक्प्रतीतिं निषेधति सति अभेदसिद्धिशंसिनि पञ्चमकोटिमात्रे चतुष्कोटिविनिर्मुक्ते सत्यतरेऽप्यद्वैततत्त्वे यथा लोकः श्रद्धां न धत्त इति व्याख्येयम् । लोकः कौतुकदर्शी सभास्थो जन इयमेनं वरिष्यतीति निश्चयमयं पञ्चमः सत्यनल इति वा निश्चयं न दधे। पञ्चमकोटिमात्रे, 'पुंवत्कर्मधारय-' इति पुंवत् ॥

 उक्तिविशेषेण पुनरपि संदेहजनितं संतापं वर्णयति-

कारिष्यते परिभवः कलिना नलस्य
 तां द्वापरस्तु सुतनूमदुनोत्पुरस्तात् ।
भैमीनलोपयमनं पिशुनौ सहेते
 न द्वापरः किल कलिश्च युगे जगत्याम् ॥ ३७ ॥

 कारिष्यत इति ॥ कलिना चतुर्थयुगन नलस्य परिभवः कारिष्यते करिष्यते । द्वापरस्तु अयं वा नलः, अयं वा नल' इति संदेहः पुनः। अथ च शब्दच्छलेन तृतीयं युगं पुनः तां सुतनुं सुन्दरीं पुरस्तात्कलेः पूर्वमेवादुनोदपीडयत् । कलिर्वरणानन्तरं नलपराभवं करिष्यति, द्वापरस्तु भैम्यै नलं वरीतुमेव नादादित्यर्थः। तयोर्विरोधित्वे कारणमाह-किल यस्मात्कारणाद्वापरः कलिश्च द्वावपि युगे जगत्यां भूलोके भैमीनलयोरुपयमनं विवाहं न सहेते। जातं तयोर्विवाहं कलिर्यथा न सोढा, तथा भाविनं द्वाप.-