पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७८
नैषधीयचरिते


इन्द्राग्निदक्षिणदिगीश्वरपाशिभिस्तां
 वाचं नले तरलिताथ समां प्रमाय ।
सा सिन्धुवेणिरिव वाडववीतिहोत्रं
 लावण्यभूः कमपि भीमसुताप तापम् ॥ ३५॥

 इन्द्रेति ॥ अथ लावण्यभूः परमसौन्दर्योत्पत्तिस्थानं सा भीमसुता नले विषये तां पूर्वोक्तां 'देवः पतिः-'इत्यादिवाचमिन्द्राग्निदक्षिणदिगीश्वरपाशिभिः समां सह तुल्यां श्लेषेण तेषामपि वर्णयित्रीं प्रमाय निश्चित्य तरलता संदेहवशान्नलनिश्चयाभावाद्दोलायमानमनाः सती कमप्यनिर्वाच्यमतिदुःसहं तापमाप । का कमिव-सिन्धुवेणिर्गङ्गासागरसंगमो वाडववीतिहोत्रमिव वडवानलमिव यथा प्राप्नोति । नलनिश्चयाभावाद्धडवानलमिव दुःसहं संतापं प्रापेति भावः । नले तरलिता सोत्कण्ठेति वा ॥

साप्तुं प्रयच्छति न पक्षचतुष्टये तां
 तल्लाभशंसिनि न पञ्चमकोटिमात्रे ।
श्रद्धां दधे निषधराड्विमतौ मताना-
 मद्वैततत्त्व इव सत्यतरेऽपि लोकः ॥ ३६॥

 साप्नुमिति ॥ सा भैमी निषधराजो नलस्य संबन्धिन्यां विविधायां मतौ वुद्धौ सत्याम् । नलविषये संदेहे सतीतियावत् । पञ्चमी चासौ कोटिश्च पञ्चमकोटावेव पञ्चमकोटिमात्रे पञ्चमभागरूपे । पञ्चमस्थानस्थित इति यावत्।एवंभूते पञ्चानां मध्ये सत्यतरे अतितरां सत्येऽपि नले विषये श्रद्धामास्तिक्यं न दधे । सत्यनलेऽपि नलोऽयमेवेति तस्या बुद्धिनोंदभूदित्यर्थः । क्वसति-तल्लाभशंसिनि भैमीप्राप्त्यभिलाषिणि पक्षचतुष्टये पक्षाणां समीपवर्तिनां सहायानां सदृशानामिन्द्रादीनां चतुष्टये तां श्रद्धां सत्यनलविषयं निश्चयमाप्तुं प्रातुं न प्रयच्छति सति । भैमीप्राप्त्यभिलाषेणातिसुन्दररूपधारणात्कृत्रिमरत्नादिष्विव मायानलेषु बहुरूपातिशयदर्शनान्नलनिश्चयं प्रतिषेधति सति । का कस्मिन्निव-मतानां सांख्यादिषड्दर्शनानां मध्ये 'एकमेवाद्वितीयं ब्रह्म, नेह नानास्ति किंचन' इत्यादि इत्यादिश्रुतिभिः सत्यतरे परमार्थतो विद्यमानेऽप्यद्वैतरूपे तत्त्वे स्वरूपे ब्रह्मैक्यबोधे वा विषये लोकोऽविद्यावान्युक्तायुक्तविचारशून्यो जनो यथा श्रद्धां न धत्ते । क्व सति-पक्षचतुष्टये अनेकात्मवादिसांख्यादिदर्शनचतुष्के तामद्वैतश्रद्धां प्राप्तुं न ददति सति । नानात्मत्वसाधकयुक्तिसहजैरैकात्म्यनिषेधके सतीति यावत् । तस्य तत्पदवाच्यस्य लाभः तच्छंसिनीत्यद्वैततत्त्वस्य विशेषणम् ॥ * ॥ सांख्या हि प्रतिशरीरं पुरुषबहुत्वमङ्गीकुर्वन्ति। नैयायिकाश्च 'नानात्मानो व्यवस्थातः' इति वचनादात्मनां नानात्वमङ्गीकुर्वन्ति । आर्हताश्च देहप्रमाणात्मस्वीकारमङ्गीकुर्वन्ति । बौद्धाश्च स्वसिद्धान्तसिद्धानेकयुक्तिभिरनेकात्मनामेव चित्तततिबाहुल्यमङ्गीकुर्वन्ति ॥ * ॥ सत्,