पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७६
नैषधीयचरिते

भर्ता भविता । अपित्वेतत्सदृशोऽतितेजस्वी कोऽपि नास्तीत्यर्थः । अथ च-तव कोऽभीष्टः । अपितु न कोऽपि । किं तु परः शत्रुरेवेत्यर्थः ॥ * ॥ अत्रापि त्यागः सूचितः। तथाहि-एष ना मनुष्यो न, किंतु धराजगत्या आग्नेय्या दिशः पतिः देवो वह्निरिति भवत्या निर्णीयते किम् । यतो न व्रियते । त्वया सत्यमेव निश्चितमित्याह-अयं त्वच्चित्तानुरञ्जकोऽतितेजस्वी नलो न, किंतु तदाकारधारणान्नलाभः । सहजेयं कान्तिर्न भवतीत्यर्थः । नले तृणविषये आभा यस्य । यस्य तेजस्वित्वं तृणं प्रत्येव न तु दैत्यान्प्रतीत्यर्थ इति वा । नैषधराजो गतिर्यस्यास्तया भवत्या एष दीप्यमानोऽग्निः किमु न निर्णी यते । अपितु निर्णायत एव । यत्तो न व्रियते । अयं तव पतिर्नलो न भवति किंतु दैत्यैराक्रान्ततेजास्तृणविशेषनलतुल्य इति वा ॥

 यमपक्षे-एष धरान्पर्वताञ्श्रृङ्गाभ्यां खुरैर्वा अजति क्षिपति धराजो महिषस्तस्य गत्या तेन वा या गतिस्तयोपलक्षितः धर्मरूपत्वात्पतिः पालयिता देवः क्रीडापरोऽमरश्च यमो न निर्णीयत इति न । अपितु निश्चित एव । परं किमु न व्रियते । एष देवः धराजेन महिषेण कृत्वा अर्थाद्यमस्य गतिर्यस्यामेवंभूताया दक्षिणदिशः पतिर्न । अपितु भवत्येवेति किमु न निर्णीयते किं वा न व्रियते, अपि तु यमत्वेन निर्णेयो वरणीयश्चे. त्यर्थ इति वा । अतितेजस्व्ययं निश्चितं नलो गहनो न । अपितु धर्मरूपत्वाद्गहन एव । 'नल गहने' इत्यस्य पचाद्यचि रूपम् । यदि चैनं त्यजसि तर्हि तव लाभो न किंतु हानिरेव । यतः-तव एतदन्यः श्रेष्ठश्च कतरो वरः । अपितु नास्त्येवेत्यर्थः । अयं नलो न किंतु तवातिमहतामनानां प्राणानां लाभो यस्मात्सोऽतिमहानलाभः । सर्वेषां प्राणा एतदधीना अतस्त्वया त्वस्मिन्वृते तव चिरकालं प्राणनं भविष्यतीत्यर्थः । यद्वा-धर्मरूपत्वादतिशयितो महः पूजा यस्य स चासौ अनलाभश्च तेजस्वित्वाद्वह्नितुल्य इत्यर्थः । यदिचैनं त्यजसि, तर्हि तव वरः श्रेष्ठः परः शत्रुः कतरः । अपितु एतस्मिन्परित्यक्तेऽयमेव महाशत्रुरित्यर्थ इति वा । अथ च -के जले तरति, कानि जलानि तरन्त्यस्मिनिति वा कतरो वरुणो वरो भविता ॥ * ॥ अत्रापि त्यागः सूचितः । तथाहि एष धराजगत्या दक्षिणदिशः पतिर्देवो यमो न । अपि तु यम एव इति निश्चित्य तेन कार णेन न व्रियते किम् । धर्मराजबुद्ध्या देवो न निर्णीयते इति न । किंतु निर्णीयत एव । अतएव पतिर्न व्रियते किमिति वा । अयं दैत्यैः आक्रान्ततेजा नलः पितृदेवो यमो न । अपि तु यम एव । परं तव नलवदाभाति नलाकारधारणादित्यर्थ इति वा । यदि चैनं त्यजसि तर्हि श्रेष्ठः सुखसमुद्रो नलो वरो भविता ॥

 वरुणपक्षे -एष धराजगत्या भूलोकस्य पतिर्न । किंत्वर्थात्पातालस्य । अत एव देवः कान्तिमानमरश्च वरुणः किं न निश्चीयते किं वा न व्रियते । अयं नलो न किंतु अतिमहती नलवत्कान्तिर्यस्य सोऽतिमहाः तव नलाभो भातीति शेषः । यदि चैनमुज्झसि, तर्ह्यातदन्यः श्रेष्ठश्च तव को वरो भर्ताऽपितु एतत्सदृशोऽन्यो नास्तीत्यर्थः । धरायां जायन्ते धराजानि स्थावरजङ्गमानि भूतानि तेषां गतिर्जीवनोपायो जलं तस्य पतिः न अपितु अपांपतिर्वरुणो देवः किं न निर्णीयते, किं वा न व्रियते । अपितु निर्णेयो वरणीयश्चेत्यर्थः । अतिमहस्य अपिपूज्यस्यानलस्याग्नेरभा कान्त्यभावो यस्माद्धेतोर्वरुणो हि जलरूपत्वादग्निविरोधीत्यर्थ इति वा । यदैनं त्यजसि, तदा तव वरः श्रेष्ठः कः परः शत्रुः । अपितु अयमेव शत्रुरित्यर्थ इति वा । धरतीति धरो धर्ता जगतः पोषकः स