पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७२
नषधीयचरिते

तथा-ननु भैमि मया नाम गृहीत्वा कथितमनलं नलान्यं अथ च -वह्निमनु ते वर्जनं साधु भद्रम् । आ हर्षे । नु भैमि, तमनु ते आवर्जनं सामस्त्येन वर्जनं न साधु । अपितु साध्वेवेति वा । आ आवर्जनं सामस्त्येनाङ्गीकरणं तव न साधु, किंतु वर्जनमेव साध्विति वा नामग्राहम् , 'द्वितीयायाम्' इत्यनुवृत्तौ 'नाम्न्यादिशिग्रहोः' इति णमुल् ॥

यच्चण्डिमारणविधिव्यसनं च तत्त्वं
 बुड्ध्वाशयाश्रितममुष्य च दक्षिणत्वम् ।
सैषानलेसहजरागभरादमुष्मि-
 न्नात्मानमर्पयितुमर्हसि धर्मराजे ॥ ३० ॥

यदिति ॥ चोऽवधारणे । यस्य चण्डिमा क्रूरत्वं रणविधौ सङ्ग्रामविधाने व्यसनमेव वैरिणां विगतासुकरणमेवेत्यर्थः । सर्वानपि वैरिणो मारयत्येवेति भावः। रणविधौ व्यसनमिव व्यसनम् । यच्चण्डिमा क्रौर्यम् , यच्च रणकर्मणि व्यसनमिति वा । सा एषा त्वं अमुष्याशयमभिप्रायमाश्रितं मनसि स्थितं दक्षिणत्वं सरलत्वं च तत् सर्वंं बुद्ध्वा ज्ञात्वा, (शयं) पाणिं आश्रितं दानशूरत्वं वा ज्ञात्वा धर्मसहिते राजनि धर्मेण राजमाने वा अमुष्मिन्नले सहजरागभरादकृत्रिमानुरागबाहुल्यादात्मानमर्पयितुं योजयितुमर्हसि न । अपि तु योग्या भवस्येवेति वा। सर्वथाऽयं वरणीय एव त्वयेति भावः । एतेन शूरत्वदातृत्वधार्मिकत्वान्यस्योक्तानि ॥

यमपक्षे हे चण्डि कोपने, यत् च अमुष्य यमस्य मारणविधिव्यसनं प्राणिप्राणहरणशीलत्वं आशया दिशा च दक्षिणत्वमाश्रितं तत्तत्त्वं निरुपाधिरूपं ज्ञात्वा सैषा त्वं अनले नलान्यस्मिन् नलसदृशे चास्मिन्धर्मराजे यमे अकृत्रिमप्रेमरसबाहुल्यात्संयोजयितुमर्हसि । सर्वप्राणा एतद्धीनाः, दक्षिणदिक्पतिश्चायं तस्मादादरणीय इति भावः। चण्डि नलान्यनामधेयश्रवणमात्रात्कोपने । सर्वदा सर्वप्राणिप्राणहरणमेव व्यसनं दोषं अमुष्य दिशा दक्षिणत्वं छलेन सरलत्वमुदारत्वं चाश्रितं न त्वनेनेत्यर्थः तत् सर्वं तात्त्विकं बुद्धा सैषा त्वं नलादन्यस्मिन् अस्मिन्नात्मानं योजयितुं योग्या न भवसि । अमुष्य (यत्), मारणविधिव्यसनं तत् तत्त्वं सत्यं, दक्षिणत्वं तु दिगाश्रितं दक्षिणदिक्पतित्वात्। दक्षिण इति देशनिमित्तास्य समाख्या, तदेतद्बुद्धा सैषा त्वं आत्मानमर्पयितुं न अर्ह सीति वा योजना । एवंविधो न वरणीय इति भावः। अन्यच्च कारणम्-असहजरागभरात् असहजानुरागबाहुल्याच्चेत्यर्थः । यत्रानुरागो नास्ति, स न वरणीय इति भावः ॥

किं ते तथा मतिरमुष्य यथाशयः स्या-
 त्वत्पाणिपीडनविनिर्मितयेनपाशः ।
कान्मानवानवति नो भवनं चरिष्णू-
 न्नासावमुत्र नरता भवतीति युक्तम् ॥ ३१ ॥