पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७०
नैषधीयचरित

य्येवानुरक्तेति मां वरिष्यति न वेति नलसंदेहो गत इति भाव इति वा । इत्यादि व्याख्याविशेषो विचार्याङ्गीकरणीयः॥

बालां विलोक्य विबुधैरपि मायिभिस्त-
 रच्छद्मितामियमलीकनलाकृतस्वैः ।
आह स्म तां भगवती निषधाधिनाथं
 निर्दिश्य राजपरिषत्परिवेषभाजम् ॥ २७ ॥

 बालामिति ॥ इयं भगवती सरस्वती निषधाधिराजमुद्दिश्य तां बालां भैमीमाहस्सोवाच । किं कृत्वा-तां भैमी अलीकनलीकृतस्वैरसत्यनैषधीकृतात्मभिर्मायिभिश्छलपरैरपि तैर्विबुधैर्देवैरच्छद्मितामप्रतारितां विलोक्य । किंभूतं नलम्-राज्ञां परिषत्सभा तस्याः परि समीपे वेषं शृङ्गारं भजति (तम्) । 'परिशेष-' इति पाठे परिशेष उपान्तः । बालामपि, विबुधैरपीत्यपिरुभयत्र संबध्यते । बाला हि प्रतार्यते, इयं बालापि न प्रतारिता तेष्वेकस्याप्यवरणात् । ये च विबुधा ज्ञातारस्ते मायिनः खलाः । कथं मायिभिरपि बालापि न प्रतारितेत्यप्याश्चर्यम् । राजपरिषदः परिवेषरूपणान्नलस्य चन्द्रत्वं ध्वनितम् । परिषत् , 'सदिरप्रतेः' इति षत्वम् ॥

आयाजिलब्धविजयमसरस्त्वया किं
 विज्ञायतेरुचिपदं न महीमहेन्द्रः।
प्रात्यर्थिदानवशताहितचेष्टयासौ
 जीमूतवाहनधियं न करोति कस्य ॥ २८ ॥

 अत्याजीति त्वया मह्या महेन्द्रो नलः किं न ज्ञायते, अपि तु विशेषेण इन्द्रादिभ्यो भेदेन सत्यत्वेन जानीहीत्यर्थः । किंभूतः-अतिशयेन आजौ सङ्ग्रामे, अतिशयिते वा आजौ लब्धः प्राप्तो विजयस्यारिपराभवनस्य प्रसरो बाहुल्यं येन । तथा -रुचेरनुरागस्य कान्तेर्वा पदं स्थानम् । तथा-असौ अर्थिनमथिनं प्रतीति प्रत्यर्थि या दानवशता दानपरता (तया), दानेष्वर्र्थिनं प्रत्येव वा वशतया जितेन्द्रियतया वा आहिता कृता या चेष्टा याचकानुकूलव्यापारः तेन परदारदर्शनादिनिवृत्तव्यापारेण च जीमूतवाहनस्य अर्थिहेतोः प्राणानपि तृणवहदतो राजविशेषस्य धियं बुद्धिं दानातिशयेनाधिपरतन्त्रतया च जितेन्द्रियतया च किमयं जीमूतवाहन इति धियं कस्य न करोति । दानशूरत्वादित्रयमस्य सूचितम् । प्रत्यर्थिनो वैरिणो द्यन्ति प्रत्यार्थदा अनाः प्राणा येषां ते अतिशूराः ते वशा अधीना यस्य तस्य भावस्तत्ता तया कृत्वा कृता या चेष्टा तया शत्रुवशीकरणव्यापारेणेन्द्रबुद्धिं कस्य न करोति । अपितु सर्वस्यापि करोति । इन्द्रो यथा शत्रून्वशीकरोति तथायमपीति वा ॥

 इन्द्रपक्षे-अयं महेन्द्रः त्वया किं न विज्ञायते । अपितु-इन्द्रत्वेन निश्चयः । किं-