पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६९
त्रयोदशः सर्गः

कोकनदच्छविः' 'जीवनं भुवनं वनम्' 'विष्टपं भुवनं जगत्' 'सलिलं कमलं जलम्' 'कमला श्रीः इत्यमरः । आशयाः 'अधिकरणे शेतेः, इत्यच् ॥

शङ्कालताततिमनेकनलावलम्बां
 वाणी नवर्धयनु तावदभेदिकेयम् ।
भीमोद्भवां प्रति नले च जलेश्वरे च
 तुल्यं तथापि यदवर्धयदत्र चित्रम् ॥ २६ ॥

 शङ्केति ॥ इयं पूर्वोक्ता वाणी भीमोद्भवां प्रति लक्षीकृत्य । भैम्या इति यावत् । अनेकनलावलम्बां नानानैषधविषयां शङ्कालतातति संशयवल्लीपरम्परां न वर्धयतु तावन्न पूरयतु तावत् । अपितु पूरयत्येव । नवा ऋद्धिर्यस्याः सा नवर्धिः नवर्धि करोतु नवर्धयतु । भैमीं प्रति संदेहपरम्परां नूतनसमृद्धिमतिबद्धां करोत्वित्यर्थ इति वा । तावच्छब्दोऽनुमतौ, अवधारणे वा । यतः-अभेदिका विशेषप्रतिपादनमकुर्वती । समानधर्मदर्शनाद्धि संशय उपचीयते, विशिष्टधर्मदर्शनात्तु व्यावर्तत इत्यर्थः । यद्यप्यत्र विषये चित्रं नास्ति । तथापि नले जलेश्वरे च तुल्यमेककालं यत् संशयवल्लीपरम्परामवर्धयत्पूरयति स्म अत्र विषये चित्रमाश्चर्यम् । नहि विषयस्यैव संदिहानत्वमुपपद्यते । यतो लोके दूरस्थिते पुरुषे पुरुषत्वं स्थाणुत्वं वाऽनुपलभ्य, ऊर्ध्वत्वमात्रं स्थाणुसाधर्म्यमुपलभ्य तटस्थः स्थाणुर्वा पुरुषो वेति संदिग्धे । नतु पुरुष एवात्मानमूर्ध्वमवलोक्य अहं वा स्थाणुर्वेति । तस्मान्नलजलेश्वरविषयो भैम्याः संशयो युक्तः। विषयभूतयोरेव तु संशये महदाश्चर्यमिति भावः । विरोधपरिहारस्तु-तुल्यकालं यथाक्रमं नले शं सुखम् , जलेश्वरे कालताततिं कालिमातिशयं पूरयति स्म । तथाहि-यदि देवी एनं नल एवायमित्यकथयिष्यत्तदा मय्यनुरक्ता भैमी मामकभ्रमेणैनमेवावरीष्यत् तत्तु देव्या न कृतं वरुणश्लेषेण वर्णितत्वादिति नले सुखं जनितम् । यदि वाणी मां नल एवायमित्यकथयिष्यत्तदा नलबुद्ध्या भैमी मामेवावरीष्यत् तत्तु तया न कृतं मच्छ्छषेणैव वर्णितत्वादिति विषादाद्वरुणे कालिमातिशयो जनितः । कालताततिरप्यनेकनलावलम्बिनी चतुर्णामप्यवरणात् । अथ च-मत्संदेहावरुणं भजेत् , नलसंदेहान्मां भजेदिति क्रमेण. नलवरुणयोः संशयपरम्परां पूरयति स्म । अनेकनलावलम्बां भैम्याः संशयवल्लीपरम्परां न वर्धयतु न छिनत्तु । 'वर्धक् पूर्तिच्छिदोः' । यतो-विशेषमप्रतिपादयन्ती । या हि छेदासमर्था छुरिकादिः साऽनेकतृणविशेषावलम्बना लताततिं न छिनत्ति इति नाश्चर्यम् । तथापि भैमीं प्रति नले च जलेश्वरे च संशयवल्लीपरम्परामेककालमेव यदच्छिनत्तचित्रम् । या हि न छिनत्ति सा छिनत्तीति चित्रमिति भावः । मत्संदेहादेनं भैमी भजेदिति नलभ्रान्तिः, नलसंदेहान्मां भजेदिति वरुणभ्रान्तिः । वरुणवाचिशब्दसद्भावाच्छलेषवक्रोक्त्यादिज्ञानचतुरा भैमी वरुणं न वरिष्यतीति निश्चयेन नलभ्रमनाशः नलेऽनुरक्ता भैमी मत्प्रतिपादकशब्दसद्भावान्मां न वरिष्यतीति निश्चयेन वरुणभ्रमनाश इति वा । विशेषमप्रतिपादयन्ती वाणी सरस्वती वा । देव्या नामग्राहमहं वर्णितः, अतो मां वरिष्यति न वेति वरुणस्य संदेहो गतः। इदानीमवशिष्टोऽहमेव, म-