पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६७
त्रयोदशः सर्गः।

 नासीरेति ॥ नदीनामिनः स्वामी समुद्रो नासीरसीमनि जलमयसेनामुखविभागे स्थितः सन् करणभावं साधकतमत्वमितैर्गतै रत्नैर्मुक्तादिभिः अलमतिशयेनास्य वरुणस्य सुखमातनोत्युत्पादयति । सुखजनने रत्नानि करणभूतानि । स्वामिनेऽस्मै रत्नानि दत्त्वा प्रीतिमुत्पादयतीत्यर्थः । करणे देहे भावं सत्त्वमितैः प्राप्तैः । स्वदेहोत्पन्नैरित्यर्थ इति वा । अलंकरणभूतत्वाद्वरुणदेहस्थितैरिति वा । एवंविधै रत्नैरुपलक्षितो वा । अलंकरणभावमलंकरणत्वं गतैरत एव तैः सुखमातनोतीति वा । किंभूतो नदीनः-घनध्वनिर्निबिडशब्दः । तथा-भूयान्प्रचुरतरः दीर्घपरिमाणत्वात् , सप्तसंख्यत्वद्वा । तथा-कुम्भीरा नक्रास्तद्वान् । (तथा-) मकरा मत्स्यविशेषास्तद्युक्तः । तथा-सहदानवारिः पुण्डरीकाक्षयुक्तः । (तथा-) उच्छब्द उदयार्थः । उद्गतानि विकसितानि पद्मानि येषु तानि काननानि तेषां सखा । तद्युक्त इत्यर्थः । उत्कृष्टा पद्मा लक्ष्मीर्येषामेवंविधैः काननैर्युक्त इति वा । उत्कृष्टा पद्मा लक्ष्मीः स्वकन्या यस्मिन्स चासौ वनसखश्चेति वा । श्रीविष्णोस्तत्र विद्यमानत्वालक्ष्मीयुक्तत्वम् । नासीरसीमपदेन तीरं लक्ष्यते तत्र निबिडध्वनिरिति वा । जलस्य तीरे प्रतिघातात् ॥

 नलपक्षे-भूयान्वहुतरः कुम्भी गजो नासीरमुखे सेनामुखविभागे सुखमनायासेन रवाञ्शब्दान्विस्तारयति । किंभूतः कुम्भी-धनवद्ध्वनिर्यस्य । तथा-समः आनुपूर्व्या वृत्तः सलक्ष्मीको वा करः शुण्डादण्डो यस्य । तथा-दानवारिणा मदजलेन सहितः। तथा-उद्गतानि पद्मकानि कुम्भस्थले पद्मबिन्दुजालकानि यस्मिन्नेवंविधं यदाननं मुखं तद्युक्तः । तथा–अलंकारत्वं प्राप्तैर्रत्नैः दीनो न । कितु संभृतः । 'सेनामुखं तु नासीरम्', 'नक्रस्तु कुम्भीरः', 'पद्मकं बिन्दुजालकम्' इत्यमरः ॥

सस्यन्दनैः प्रवहणैः प्रतिकूलपातं
 का वाहिनी न तनुते पुनरस्य नाम ।
तस्या विलासवति कर्कशताश्रिता या
 ब्रूमः कथं बहुतयासिकता वयं ताः ॥ २४ ॥

 सेति ॥ हे विलासवति भैमि, नाम शिरश्चालने । अस्य वरुणस्य का नाम वाहिनी नदी सस्यन्दनैः सवेगैर्निझरोदकसहितैर्वा प्रवहणैः प्रवाहैः कृत्वा कूलं तीरं प्रत्यनु पातं गमनं न तनुते । अपितु सर्वापि तनोति । वयं तस्यास्ताः सिकता वालुका बहुतया प्रचुरत्वेन कथं केन प्रकारेण ब्रूमः कथयामः । अतिबहुत्वेनेयत्तया वक्तुं न शक्यत इत्यर्थः । ताः काः-याः कर्कशतां काठिन्यं श्रिताः । कर्को जलजन्तुविशेषः तच्छतैराश्रिता इति वा ॥

 नलपक्षे -अस्य नलस्य का नाम वाहिनी सेना संस्यन्दनैः सरथैः प्रकृष्टैर्वाहनैरश्वादिभिः कृत्वा प्रतिकूला वैरिणस्तान्प्रति पातं गमनं न करोति।अपितु चतुर्विधापि सेनाकरोत्येव ।प्रतिकूलानां वैरिणां पातं हननमिति वा । का सेना अस्य नाम ख्याति प्रतिकूलाञ्शत्रून्पातयित्वा शत्रुमात्रं हत्वा न तनुते । सेनास्य ख्याति करोतीत्यर्थ इति वा। सवेगैः क्रीड़ारथैः कृत्वा वैरिणां प्रतिगमनं करोतीति वा । अनेन सेनाया निर्भयत्वं