पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६५
त्रयादशः सर्गः

र्यम् । खलु निश्चये । सर्वप्राणिनाश एतद्धीन इति निश्चयेनायमन्तक इति किं न जानासीत्यर्थः॥

 नलपक्षे -पराश्च इतरे आत्मीयाश्च तेषामाजिः । पराञ्श्रेष्ठांस्तेजस्विनोऽपि इतरयन्ति क्षोदीयसः कुर्वन्ति ये तेषामाजिरिति वा । परा उत्कृष्टा या इतरेषां वैरिणामाजिरिति वा । तस्यां अयं नल एक एव प्रभावमेति । तथा-भूतेषु पृथिव्यतेजोवाय्वाकाशेषु मध्ये इयमित्यभिनयेन सकला भूः सौन्दर्येण दस्रसहोदरस्याश्वितुल्यस्य यस्यास्य वश्यत्वमाश्रयति । तत्तस्मान्मुग्धे सुन्दरि, अस्मिन्प्राणेशबुद्धिं निधेहि । तथासमा सश्रीका त्वं यस्य एतद्वरणे प्रयत्नं कुरु । एवंविधः शूरः प्रभुशक्तियुक्तः सुन्दरश्च कोपि नास्तीत्येनमेव वृणीष्वेति भावः । इतरशब्दात्पक्षे तत्करोति-' इति णिचि पचाद्यचिणिलोपः॥

गुम्फो गिरां शमननैषधयोः समानः
 शङ्कामनेकनलदर्शनजातशङ्के।
चित्ते विदर्भवसुधाधिपतेः सुताया
 यन्निर्ममे खलु तदेष पिपेष पिष्टम् ॥ २० ॥

गुम्फ इति ॥ शमननैषधयोर्यमनलयोर्विषये समानस्तुल्यः पूर्वोक्तो गिरां गुम्फो देव्या वाणीसंदर्भः विदर्भवसुधाधिपतेः सुताया भैम्याश्चित्ते यच्छङ्कां संशयं निर्ममे तत्खलु निश्चितं एष पिष्टं पिपेष । चूर्णमेव चूर्णितवानिति दृष्टान्त इत्यर्थः । चूर्णचूर्णनं यथा वृथा तथेदमपीत्यर्थः । किंभूते चित्ते अनेकेषां नलानां दर्शनेन जातशङ्के उदूतसंशये । 'गुम्फः स्याद्गुम्फने' इति वि[१]श्वः॥

तत्रापि तत्रभवती भृशसंशयालो-
 रालोक्य सा विधिनिषेधनिवृत्तिमस्याः ।
पाथः:पतिं प्रति धृताभिमुखाङ्गुलीक-
 पाणिः क्रमोचितमुपाक्रमताभिधातुम् ॥ २१ ॥

 तत्रेति ॥ तत्रभवती पूज्या सा भगवती सरस्वती क्रमोचितं क्रमप्राप्तं, परिपाटीयोग्यं यथा तथा वा, अभिधातुं वक्तुमुपाक्रमत । किं कृत्वा-तत्र यमेऽपि भृशमत्यर्थं संशयालोः संदिहानाया अस्या भैम्या विधिनिषेधाभ्यां सकाशान्निवृत्ति प्रवृत्तिनिवृत्त्योरभावमालोक्य । किंभूता-पाथसां पयसां पतिं प्रभुं वरुणं प्रति धृतोऽवस्थापितोऽभिमुखाङ्गुलीकः संमुखकरशाखः पाणिर्यया । तत्रभवच्छब्दः पूज्यार्थः । अङ्गुलीक इति 'नद्यृतश्च' इति कप् । उपाक्रमत, 'प्रोपाभ्याम्-' इति तङ् । अभिधातुं क्रमियोगे 'शकधृष-' इति तुमुन् ॥


  1. 'अत्र साशङ्कशङ्कोत्पादे पिष्टपेषणवाक्यार्थयोरेकत्रासंभवेन सादृश्याक्षेपादसंभवद्वस्तुसंबन्धो वाक्यार्थवृत्ति- निदर्शनालंकारः' इति जीवातुः।