पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६२
नैषधीयचरिते

रोवर्तिनं तं प्रति एकं चित्तं मनः अयं नल इत्यूचे । अन्यदपरं चित्तं अयमनल इति ब्रूते स्म नलव्यतिरिक्तो वह्निरित्यकथयत् । युगपदालोचनस्मृतिप्रसङ्गान्मनसः प्रतिशरीरमेकत्वस्यासाधितत्वादेकस्मिन्नपि मनसि क्रियाभेदावस्थान्तरप्राप्तेर्भेद इवोपचर्यते । (यद्वा-) एकमेव तं पुरोवर्तिनं अनल इति प्रत्यूचे । अकारप्रश्लेषणानलोऽयमिति ब्रवीति स मनः। तथा-अयमन्यान्वैरिणो द्यति अवखण्डयतीत्यन्यदः स चासौ नलश्च अन्यदनल इति ब्रूते स्म । अत्र व्याख्याने प्रथमक्रमभङ्गोऽपि न भवति । एकस्य द्वैरूप्याद्विरोधाभासश्च । 'शोचिषकेश उषर्बुधः' इत्यमरः । 'उषसि बुध्यते' इति उषर्बुधः । 'इगुपध-' इति कः। अहरादीनाम्-' इति रेफः । 'तुल्याथैः-' इति तृतीया। 'अन्यद्-' इति पक्षे कः । समानं धारणमस्य साधारणम् । अनेकं प्रत्यविशिष्टबन्धम् । पृषोदरादिः । ततः स्त्रियां पादार्घाभ्यां च' इत्यत्र 'अग्नीध्रसाधारणादञ्' इति वक्तव्यादञि ङीप् । वाप्रकरणाञ्च साधारणभूमिरित्याद्यपि घटते । इदमीयम्, त्यदादित्वात् 'वृद्धाच्छः॥

एतादृशीमथ विलोक्य सरस्वती तां
 संदेहचित्रभयचित्रितचित्तवृतिम् ।
देवस्य सूनुमरविन्दविकासिरश्मे-
 रुद्दिश्य दिक्पतिमुदीरयितुं प्रचक्रे ॥ १५ ॥

 एतादृशीमिति ॥ अथ सरस्वती अरविन्दविकासिनः कमलविलासकरा रश्मयः किरणा यस्य देवस्य रवेर्दिक्पतिं दक्षिणदिशः पतिं सूनुं अन्येषां पुत्राणां दिक्पतित्वाभावाद्यममुद्दिश्य उदीरयितुं वक्तुं प्रचक्रे आरेभे । किं कृत्वा एतादृशीमुक्तसंशयास्पदीभूताम् । तथा-नलनिश्चयाभावात्संदेहः, तुल्यरूपदर्शनाद्देव्युक्तिवैचित्र्याद्वा चित्रम् , नलनिश्चयाभावान्नलप्राप्तिविघ्नात्रासः, तैः संशयाश्चर्यत्रासैः चित्रिता नानाविधा कृता चित्तवृत्तिर्यस्याः सा एवंविधां तां भैमीं विलोक्य । 'चित्तभित्तिम्' इति पाठे चित्तमेव भित्तिर्यस्याः । भित्तौ हि चित्रं युक्तमित्यर्थः । एषेव दृश्यत इति 'त्यदादिषु दृश-' इति कञि 'आ सर्वनाम्नः' इत्यात्वे 'टिट्ढा-' इति ङीपि एतादृशी ॥

दण्डं बिभर्ययमहो जगतस्ततः स्या-
 त्कम्पाकुलस्य सकलस्य न पङ्कपातः ।
स्वर्वैद्ययोरपि मदव्ययदायिनीभि-
 रेतस्य रुग्भिरमरः किमु कश्चिदस्ति ॥ १६ ॥

 दण्डमिति ॥ अहो संबोधने अयं यमो दण्डं स्वायुधं बिभर्ति । ततस्तस्माद्धेतोः पुराणादिदर्शनेन कम्पाकुलस्य पापभीरोः सकलस्य जगतो भुवनस्य पङ्कात्पापात्पातो ब्रुडनं न स्याद्भवेत् । पङ्के महारौरवादौ नरके वा । एतद्भयात्पापं कोपि न करोतीत्यर्थः ।