पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५८
नैषधीयचरिते

लेखा नितम्बिनि बलादिसमृद्धराज्य-
 प्राज्योपभोगपिशुना दधते सरागम् ।
एतस्य पाणिचरणं तदनेन पत्या
 सार्धं शचीव हरिणा मुदमुद्वहस्व ॥ ७ ॥

 लेखा इति ॥ हे नितम्बिनि अतिपृथुनिबिडनितम्बे भैमि, बलवृत्रनमुचिप्रभृतीनां समृद्धं संपूर्ण राज्यं राजभावस्तस्य प्राज्यो बहुरुपभोगस्तस्य पिशुनास्तदसहमाना लेखा देवा एतस्येन्द्रस्य पाणी च चरणौ च पाणिचरणं सरागं सानुरागं यथा तथा दधते धारयन्ति । हस्तदानात्पाणिम् नमस्कारार्थं च चरणावित्यर्थः । तत्तस्मात् अनेन हरिणा इन्द्रेण पत्या सार्धं शचीव मुमुद्वहस्व धारयस्व ॥

 नलपक्षे–सरागमरुणं एतस्य पाणिचरणं कर्तृ सैन्यस्वाम्यमात्यादिभिः षड्डिधेन वा बलेन समृद्धस्य राज्यस्य प्राज्य उपभोगस्तस्य सूचिकाः सामुद्रिकोक्तलक्षणभूताः चक्रध्वजादिलेखाः कर्मभूताः दधते धारयति । 'दध धारणे' एकवचनान्तमस्मिन्पक्षे रूपम् । तस्मादनेन पत्या नलेन सह हर्षं धारयस्व । केन केव-हरिणा इन्द्रेण शची इव । 'लेखा अदितिनन्दनाः' 'पिशुनौ खलसूचकी' इत्यमरः । नितम्बशब्दादतिशयार्थादिनिः। पाणिचरणम्, प्राण्यङ्गत्वादेकवद्भावे षण्ढत्वम् ॥

आकर्ण्य तुल्यमखिलां सुदती लगन्ती-
 माखण्डलेऽपिच नलेऽपिच वाचमेताम् ।
रूपं समानमुभयत्र विगाहमाना
 श्रोत्रान्न निर्णयमवापदसौ न नेत्रात् ॥ ८ ॥

 आकर्ण्येति ॥ असौ सुदती भैमी एतां पूर्वोक्तामखिलां वाचमाखण्डलेऽपिच नलेऽ पिच तुल्यं लगन्तीं समानसंबन्धामाकर्ण्य उभयत्र इन्द्रे नले च समान रूपमैक्यरूपं च विगाहमाना जानती विशेषावलोकनादपि विशेषमनुपलम्भमाना यथाक्रमं श्रोत्राच्छ्रवणेन्द्रियात् नेत्राचक्षुरिन्द्रियाच निर्णयं नावापन्न प्राप । अनयेन्द्रः स्तुतः किं वा नलः, तयोः सरूपत्वादद्यमिन्द्रो नलो वेति नाज्ञासीदित्यर्थः । अपिचेति निपातसमुदायौ परस्परसमुदायवाचकौ । अवापत् , लृदित्त्वादङ् ॥

शक्रः किमेष निषधाधिपतिः स वेति
 दोलायमानमनसं परिभाव्य भैमीम् ।
निर्दिश्य तत्र पवनस्य सखायमस्यां
 भूयोऽसृजद्भगवती वचसः स्रजं सा ॥ ९ ॥