पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
त्रयोदशः सर्गः।


किंभूतानाम्-अतुला अत्युच्चाः कर्कशाश्च विग्रहा देहा येषाम् । तथा-उद्दामदर्पाणामत्युद्भटानां हरिकुञ्जराणां सिंहहस्तिनां कोटिM भजताम् । एकस्मिन्प्रदेशेऽनेकसिंहानां अन्यस्मिंश्चात्युद्भटानेककुञ्जराणामित्यर्थः । किंभूतोऽयम्-वलादैत्यादुद्ग्र उग्रबलः। यद्वा-उदग्रं पौरुषं यस्य सः॥

 नलपक्षे-अतुलानत्युच्चान्सलक्षणांश्च कर्काञ्स्वेताश्वान् श्यन्ति मारयन्ति एवंविधा विग्रहाः शरीराणि वैरं वा येषाम् । तथा-उद्दामदर्पा हरयोऽश्वा गजाश्च तेषां कोटिं भजताम् । वैरिनृपाणां पक्षच्छिदां सहायच्छेदं कुक्षिच्छेदं वा कृत्वा उदग्रं वलं पौरुषं सैन्यं वा यस्य अयं नलो वैरिकृतापत्समुद्रे मग्नं जगदुज्जहार वैरिणो हत्वा विपद्रहितमकरोदित्यर्थः॥

भूमीभृतः समिति जिष्णुमपव्यपायं
 जानीहि न त्वमघवन्तममुं कथंचित् ।
गुप्तं घटप्रतिभटस्तनि बाहुनेत्रं
 नालोकसेऽतिशयमद्भुतमेतदीयम् ॥ ६ ॥

 भूमीभृत इति॥ हे घटस्य प्रतिभटौ स्पर्धिनौ स्तनौ यस्याः तत्संबुद्धिः भैमि,त्वं समिति संग्रामे भूमीभृतःपर्वतान् जिष्णुं जेतारम् । तथा न विद्यते पवेर्वज्रस्यापायो नाशो यस्य तममुं अमघवन्तमनिन्द्रं न तु नैव जानीहि । अपि तु इन्द्र एवायम् । इन्द्रस्य सहस्त्रनेत्रत्वान्नायं तथेत्यत आह-त्वं एतदीयं शयं पाणिमतिकान्तं प्रसृतादपि दीर्घमत एवाद्भुतमाश्चर्यकारि कथंचिद्गुप्तं नलरूपधारणाच्छादितं बहुनेत्रस्य भावो बाहुनेत्रं न आलोकसे न पश्यसि । गुप्तत्वात्, न त्वविद्यमानत्वादित्यर्थः । शयादतिक्रान्तम् । हस्ततलयोर्नॆत्राणि न सन्तीत्यर्थ इति वा । बहुनेत्रसमूह वा । बहुनेत्रसंबन्धिनमेतदीयमद्भुतमतिशयमुत्कर्षं वा आश्चर्यमिति वा ॥

 नलपक्षे-त्वं अमुं अधवन्तं सपापं न जानीहि पुण्यश्लोकत्वात् । रणे राज्ञो जेतारम् । तथा—अपगतो विशिष्टोऽपायो यस्मात्तं अपगतो व्यपायः पलायनं यस्य । अपलायमानमित्यर्थः । एतदीयमतिशयमपरिमितहस्तपरिमाणमाश्चर्यरूपं प्रावरणवशा- द्बाहौ हस्ते स्थितं नेत्रं चीनांशुकं गुप्तं यथा तथा द्रव्यान्तरविलोकनव्याजेन न आलोकसे । अपितु-आलोकयेत्यर्थः। बाहू च नेत्रे च बाहुनेत्रं शयमतिक्रान्तम् । बाहू हस्तपरिमाणाधिकपरिमाणौ, नेत्रे च प्रसृतादप्यधिके इत्यर्थः । तद्गुप्तं यथा तथा नालोकसे। अपि त्वालोकयेति वा । अतिशयं बाहुनेत्रम् । बाहू अतिशयितौ वदान्यौ शयौ ययोस्तावतिशयौ । नेत्रे च शयमतिक्रान्ते । अतिशयौ च अतिशये चेति नपुंसकैकशेषेण वा व्याख्येयम् । एतदीयं गुप्तमनेन पालितम् । बहवश्च ते नेतारश्च बहूनां वा नेतारस्तेषां समूहम्। अतिशयितः शयो हस्तो यस्य । लक्षणया वदान्यमुत्कृष्टमालोकय । शूरा वदान्या अप्यनेन पोषिता इत्यस्योत्कृष्टत्वं व्यज्यते । 'कुलिशं भिदुरं पविः' इत्यमरः । 'नेत्रं मथिगुणे वस्त्रे' इति । जिष्णु 'ग्लाजिस्थश्च ग्स्नुः' इति ताच्छील्ये ग्स्नुः। तद्योगे भूमीभृत इति, 'न लोका-' इति षष्ठीनिषेधाद्द्वितीया । बहुनेत्रशब्दाद्भावसमूहसंबन्धेष्व्ण् । पक्षे प्राण्यङ्गत्वादेकवद्भावः ॥