पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
right
नैषधीयचरिते


म्भोजालिः कमलमाला तयुक्तो मौलिर्यस्य । बागीश्वर्या जनन्या वा प्रसादरूपेण धृतनिर्माल्यकमलस्येत्यर्थः । द्वादशानां पूरणः सर्गः व्यगलन्समाप्तः ॥

इति श्रीवेदरकरोपनामकश्रीमन्नरसिंहपण्डितात्मजनारायणकृते नैषधीयप्रकाशे द्वादशः सर्गः॥

त्रयोदशः सर्गः।


 इदानामिन्द्रादिषञ्चनलीसंज्ञां त्रयोदशं सर्गमारभते-

कल्पद्रुमान्परिमला इव भृङ्गमाला-
 मात्माश्रयामखिलनन्दनशाखिवृन्दात् ।
तां राजकादपगमय्य विमानधुर्या
 निन्युर्नलाकृतिधरानथ पञ्च वीरान ॥१॥

 कल्पद्रुमेति ॥ अथ विमानधुर्याः शिविकावाहिनः तां भैमीं राजकाद्राजसमूहादपगमय्य निवर्त्य नलाकृतिधरान्नलवेषधारिणः पञ्च वीरान्नलसहितानिन्द्रादीन्निन्युः प्रापयामासुः। शिविकावाहिनां तेषु पञ्चसु नलोस्ति न वेत्यपरिज्ञानानलस्यापि नलरूपधारकत्वं घटते । यस्य यद्रूपं तद्धारित्वं तस्यापि युक्तमेवेति कव्यपेक्षयापि युज्यते । वीरपदेन शौर्यं नायकगुणः। के कस्मात्कां कानिव-परिमला मनोहरगन्धा अखिलाः समस्ता नन्दनशाखिनो देवोद्यानतरवः तपां वृन्दादात्माश्रयां परिमलाश्रितां भृङ्गमालां भ्रमरपक्तिं परावर्त्य [१]अतिशयात्कल्पद्रुमानिव । कल्पद्रुमा नन्दनस्थितवृक्षापेक्षयाधिकाः, तथान्यराजापेक्षया तेऽपीत्यर्थः । सर्वाभिलाषपूरकत्वसाम्यान्मन्दारादिष्वपि चतुर्षु कल्पद्रुमशब्दप्रयोगः। भैम्यप्यात्माश्रया विमाने स्थितत्वात् । नयतिर्द्विकर्मा ॥

साक्षात्कृताखिलजगज्जनताचरित्रा
 तत्राधिनाथमधिकृत्य दिवस्तथा सा।
ऊचे यथा स च शचीपतिरभ्यधायि
 प्राकाशि तस्य न च नैषधकायमाया ॥२॥

साक्षादिति ॥ सा देवी तत्र तेषु मध्ये प्राधान्यान्निवेशनक्रमाञ्च दिवोऽधिनाथमिन्द्रमधिकृत्योद्दिश्य तथा तेन प्रकारेणोचे अचकथत् । यथा येन प्रकारेण स शचीपतिरिन्द्रश्चाभ्यधायि उक्तो भवति । तस्य नैषधकायस्य माया छद्म न च प्राकाशि प्रकटितं


  1. 'आत्माश्रयात्' इति लिखितपाठः ।