पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
द्वादशः सर्गः।


तत्पाथोदेवतानां विशतु तव तनुच्छायमेवाधिकारे
 तत्फुल्लाम्भोजराज्ये भवतु च भवदीयाननस्याभिषेकः ॥१०३॥

 तस्मिन्निति ॥ हे वाले, तस्मिन तडा।गे त्वं एतेन युना सह विरह क्रीड । नथा-तत्र तडागे पयःकेलिवेलामु जलक्रीडावसरेषु ग्रोप्मती वा तत्रैव नालस्य दृश्यत्वात् । प्रतिग्रीष्माभिप्रायं वहुवचनम् । नीलोत्पलानां तब अक्षिप्रतिफलनानप्रतिबिम्वात्सकाशाद्भिदा भेदः नालेन कमलदण्डेनास्तु । अतिसादृश्यात् इदं त्वन्नेत्रं वा नालोत्पलम् : इदं वा इति संदेहे 'सनालं यत्तन्नीलोत्पलम् , अनालं च व्यमिति नालमेव निर्णायकं भवत्वित्यर्थः । तथा-तस्य पाथो जलं तस्य देवतानामधिकारे व्यापार आधिपत्ये वा तव तनुच्छायं तव शरीरप्रतिबिम्बमेव विशतु । तज्जलदेवतास्थानं त्वच्छरीरप्रतिबिम्बमेव भवत्वित्यर्थः । तथा-तस्य फुल्लानां विकसितानामम्भोजानां राज्यं खण्डे । अथ च-आधिपत्ये । भवदीयाननस्य त्वदीयमुखकमलस्य च जलक्रीडावशादभिषेकः । अथ च-पट्टाभिषेकः । भवतु । नीलोत्पलजलदेवताफुल्लकमलापेक्षया भैमीनेत्रशरीराननमधिकमिति सूचितम् । तनुच्छायम् , 'विभाषा सेना-' इति पण्ढत्वम् ॥

एतत्कीर्तिविवर्तधौतनिखिलत्रैलोक्यनिर्वासितै-
 र्विश्रान्तिः कलिता कथासु जगतां श्यामैः समग्रैरपि ।
जज्ञे कीर्तिमयादहो भयभरैरस्मादकीर्तिः पुनः
 सा यन्नास्य कथापयेऽपि मलिनच्छाया बबन्ध स्थितिम् ॥१०४॥

एतदिति ॥ जगतां स्थावरजङ्गमात्मकानां भुवनानां संवन्धिभिः समग्रैरपि श्यामैः कृष्णैः कज्जलादिपदार्थैर्गुणैर्वा कथासु वार्तासु एव विश्रान्तिः कलिता आश्रयोऽङ्गीकृतः। किंभूतैः-श्यामैः-एतस्य कीर्तर्यशसः विवर्तेन परिणामेन विशेषेण वर्तनं विवर्तः स्थितिर्वा तेन धौताद्धवलीकृतान्निखिलात् सहितात्कंदरादिसहितात् निर्वासितनिष्कासितैः कीर्त्या लोकत्रयस्य श्वेतीकरणात्तत्तच्छ्यामगुणानां सांप्रतमदर्शनात् पूर्वं श्यामानि वस्तून्यभूवन्' इति वार्तामात्रशेषाणि श्यामानि जातानि सर्वथा न सन्तीत्यर्थः । तथा-कीर्तिमयात्कीर्तिप्रचुरादस्माद्राजः अकीर्तेः पुनः भयभरैर्भीतिबाहुल्यैर्जज्ञे जातम् । अहो आश्चर्यम् । कीर्तेरकीर्तेश्च विरोधात्कीर्तिरूपादस्मादकीर्तेर्भयं युक्तमित्यर्थः। एतत्कुतः यद्यस्मात् मलिनच्छायाऽतिकृष्णा सा अपकीर्तिः अस्य कथापथेऽपि स्थितिमाश्रयं न बबन्ध नाकरोत् । एतत्कथाप्रारम्भेऽकीर्तिलेशस्याप्यभावात्कीर्तिरेव वर्ण्यत इत्यर्थः । यश्च यस्माद्बिभेति स तदीयकथाप्रारम्भ एव मलिनो भूत्वान्यत्रैव गच्छति । अविद्यमानमपि शशविषाणादि वचनादिगोचरो भवति, अकीर्तिस्तु वचनगोचरोऽपि नाभूदित्याश्चर्यम् । अचेतनाया अप्यकीर्तेर्भयोत्पादनादपि चित्रम् । 'जरताम्' इति पाठे वृद्धानां कथास्विति व्याख्येयम् । जज्ञे, भावे लकारः॥

अथावदद्भीमसुतेङ्गितान्सखी जनैरकीर्तिर्यदि वास्य नेष्यते ।
 मयापि सा तत्खलु नेष्यते परं सभाश्रवःपूरतमालवल्लिताम् ॥१०५॥