पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४८
नपधायचारते

दलनं विकसनं त्वदुद्भवेन आमोदन परिमलेन मेदस्वी पुष्टों बहुलपरिमलः पूरः प्रवाहस्तस्य क्रोड उत्सङ्गे क्रीडन्ती द्विजालिर्हंसादिपङ्क्तिस्तस्या गरुद्भ्यः पक्षेभ्य उदित उत्पन्नो मरुद्धायुस्तस्य स्फालः सवेगगमनं संघट्टो वा तेन वाचालाः शब्दायमाना वीचयस्तरङ्गा यस्य । तथा-शाखानिवहेन नवहरित्पर्णर्नूतनश्यामपर्णैश्च पूर्णा द्रुमाल्यो वृक्षपङ्लयस्ताभिर्व्यालीढो व्याप्त उपान्तस्तीरप्रदेशस्तेन शान्ता व्यथा ग्रीष्मोष्मपीडायासां तासां पथिकदृशां:-ग्रीष्मोष्मपीडा येषां पथिकानां वा दृशस्तासां, दत्तो रागः संतोषो येन । तडागस्यातिरमणीयत्वं सुखजनकत्वमस्य च धार्मिकत्वं सूचितम् ॥

वृद्धो वार्धिरसौ तरङ्गवलिभं विभ्रद्वपुः पाण्डुरं
 हंसालीपलितेन यष्टिकलितस्तावद्वयोबंहिमा ।
बिभ्रञ्चन्द्रिकया च कं विकचया योग्यस्फुरन्संगतं
 स्थाने स्नानविधायिधार्मिकशिरोनत्यापि नित्यादृतः॥१०२॥

 वृद्ध इति ॥ असौ अनेन निर्मितस्तडागः वृद्धो महान्वार्धिः समुद्रः। समुद्रापेक्षयापि महानित्यर्थः । अथ च-असौ (वार)वारि धीयतेऽस्मिन्वार्धिः वारिस्थानं तडाग एव वृद्धोतिप्रवयाः । किंभूतः-तरङ्गैः कृत्वा वलिभं वलियुक्तं । तरङ्गा एव वार्धकसंकुचत्स्थूलशरीरावयवविशेषस्थाने जाता यस्येत्यर्थः। तादृशतरङ्गरूपाभिर्वलिभिर्भातीति वा । हंसालीपलितेन हंसपतिरूपेण जराशौक्लयेन पाण्डुरं धवलं प्रवाहरूपं वपुर्विभ्रत् । तथा—यष्ट्या मध्यनिक्षिप्तकीर्तिस्तम्भरूपया कलितो ज्ञातपरिमाणः । अलंकृत इत्यर्थः । अथच-स्खलच्छरीरधारणार्थं दण्डेन युक्तः। धृतशरीर इत्यर्थः । तथा तावतामतिवहूनां नानाजातीयानां वयसां पक्षिणां बंहिमा बाहुल्यं यत्र । अथच-तावतः शतसर्मापवर्तिनो वयसो वार्धकस्य वहिमा यस्य । तथा-विकचयातिप्रकाशमानया च- न्द्रिकया योग्यं समुचितं स्फुरत्प्रकाशमानं संगतं मैत्रं यस्य । ज्योत्स्नावन्निर्मलम् । अथच-समुद्रत्वादेतज्जलं ज्योस्नामैत्रयामुचितं कं जलं बिभ्रत् । अथ च -विगतकेशया चन्द्रिकया खालित्येन 'चांदी' इति कान्यकुब्जभाषायाम् । तया उचितं स्फुरन्मैत्रं कं शिरो विभ्रत् । यद्वा-केशरहितेन खालित्येनोपलक्षितम् । तथा-वार्धकोचितं प्रकटं सम्यग्गतं कम्पनं यस्य शिरसः तत् । तथा-स्नानविधायिभिर्धामिकैः शिरोनत्यापि यत् नित्यमादृतः तत् स्थाने उचितम् । धार्मिकैश्च स्नानादौ तीर्थं नमस्क्रियते वृद्धोऽपि । समुद्रस्य पर्वण्येव स्पर्शयोग्यत्वादेतस्य सर्वदेत्याधिक्यं समुद्रात् । वलिममिति मत्वर्थे 'तुन्दिवलि-' इति भः । द्वितीयव्याख्याने पचाद्यच् । बहुलस्य भावः, पृथ्वादित्वादिमनिचि 'प्रियस्थिर-' इति बंहिरादेशः । धार्मिकः, 'धर्मं चरति' इति ठ[१]क् ॥

तस्मिन्नेतेन यूना सह विहर पयःकेलिवेलासु बाले
 नालेनास्तु त्वदक्षिप्रतिफलनभिदा तत्र नीलोत्पलानाम् ।


  1. 'रूपकालंकारः' इति जीवातुः।