पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४७
द्वादशः सर्गः

कुर्वन् । चक्षुःप्रविष्टाद्रजस एव निमीलितनयनं कुन्नित्यर्थः । तथा -खुराणां खः समुच्छलनशब्दैः क्रूत्वा आशा दिक्प्रान्तनिवासिनां जनार्न्यधिग्यविधिरतया शब्दान्तर ग्रहणाशक्तान्कुर्वन् । तथा-संयति सङ्ग्रामे जवस्य वातवेगम्य जवैर्वायोः सकाशाद-तिवेगतया वातं खञ्जयन्पङ्गुं कुर्वन् । नथा -गुणैर्हेतुभिः स्तोतॄनश्वजयरूपलक्षणादिवर्णनकारिणो जनान्मूकयन् गुणाधिकत्वेन सामस्त्येन स्तोतुमसमर्थान्मृकानिव कुर्वन् । एवंभूतः सन् अनन्तरं सान्द्राणां निरन्तराणामुत्फलानां चतुर्भिश्चरणैरुत्पतानां मिपात्पदा एकेनापि चरणेन गां भुवम् । अथ च-धेनुं । म्प्रष्टुं तस्याः स्पर्शनं कर्तु वि-गायति विशेषेण जुगुप्सते । धार्मिको राजा निषिद्धमाचरतः स्वार्धानान्यापिनो दण्डयति । अहं तु तदधिष्ठितः पदा गोः स्पर्शलक्षणं पापं कुर्वन्दण्ड्यः म्यामिति वुझ्या पदा न स्पृशतीवेत्यर्थः । धार्मिको जवनाश्वश्वायमेवेत्यर्थः । अन्धयन्नित्यादौ तत्करोतिइति णिजन्ताच्छता॥

एतेनोत्कृतकण्ठप्रतिसुभटनटारब्धनाट्याद्भुतानां
 कष्टं द्रष्टैव नाभूद्भुवि समरसमालोकिलोकास्पदेपि ।
अश्वैरस्वैरवेगैः कृतखुरखुरलीमङ्क्षुविक्षुद्यमान-
 क्ष्मापृष्ठोत्तिष्ठदन्धंकरणरणधुरारेणुधारान्धकारात् ॥ १०० ॥

 एतेनेति ॥ समरसमालोकिनो ये लोकास्तेपामास्पदे स्थानभूतायामपि भुवि सङ्ग्रामभूमौ समरसमालोकिलोकानां देवानामास्पदे गगनेऽपि वा एतेन राज्ञा उत्कृत्तकण्ठाश्छिन्नग्रीवाः कबन्धरूपाः प्रतिसुभटा रिपुवीरास्त एव नटा नर्तकास्तैरारब्धानां नाट्याद्भुतानां नृत्ताश्चर्याणां द्रष्टा नाभूदेव । कष्टमतिदुःखमेतत् । तत्र हेतुः-अस्वैरवेगैः शीघ्रजवैरश्वैः कृता खुरैः कृत्वा खुरली अभ्यासभूमिः पुनः पुनः न्यासो वा तया मङ्क्षु मनोज्ञं शीघ्रं वा विशेषेण क्षुद्यमानं चूर्णीभवत्मापृष्ठं भूतलं तस्मादुत्तिष्ठन्नुत्पतन् अनन्धमन्धंकरण एवंभूतो रणधुरारेणू रणप्रारम्भ एव समुत्पन्नो रेणुस्तस्य धाराः प्रवाहास्तज्जनितादन्धकारात् । रणविलोकनार्थमागतैरपि मानवैर्देवैरप्यश्वखुरोत्थितरजःपूरितनेत्रैः कबन्धवृत्तं नालोकीत्यर्थः । 'मन्दस्वच्छन्दयोः स्वैरम् । एतत्कृत्तोत्तमाङ्गइति पाठः साधीयान् । द्रष्टा, तृच् । रणधुरा, ऋगादिना अः। धुरा भर इति वा ॥

उन्मीलल्लीलनीलोत्पलदलदलनामोदमेदस्वि पूर-
 क्रोडक्रीडद्द्विजालीगरुदुदितमरुत्स्फालवाचालवीचिः ।
एतनाखानि शाखानिवहनवहरित्पूर्णपूर्णद्रुमाला-
 व्यालीढोपान्तशान्तव्यथपथिकदृशां दत्तरागस्तडागः ॥१०१॥

 उन्मीलदिति ॥ एतेन राज्ञा एतादृशस्तडागोऽखानि निष्पादितः। किंभूतः--उन्मीलन्ती विकसन्ती लीला विलासो येषां तानि नीलोत्पलानि तेषां दलानि पत्राणि तेषां