पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४५
द्वादशः सर्गः



  अस्यासिर्भुजगः स्वकोशसुषिराकृष्टः स्फुरत्कृप्णिमा
   कम्पोन्मीलदराललीलवलनस्तेषां भिये भृभुजाम् ।
  सङ्ग्रामेषु निजाङ्गुलीमयमहासिद्धौषधीविरुधः
   पर्वास्ये विनिवेश्य जाङ्गुलिकता यैर्नाम नालम्विता ॥ ९६ ॥

 अस्येति ॥ अस्य असिरेव भुजगस्थेषां भृभुजां राज्ञां भिये भवतीति शेषः । किंभूतः-स्वकोश एव चर्ममयं पिधानं तदेव सुपिरं वल्मीकविवरं तम्मादाकष्टो बहिः कृतः सद्यो धृतश्च । तथा-स्फुरन्प्रकाशमानः उत्तमलोह जातिविशेषत्वात्कृष्णिमा श्यानत्वं यस्य । सर्पोऽपि सद्योधृतत्वात्स्फुरत्कालिमा । तथा-कम्पेन तलहस्तान्दोलनेन कृत्वा उन्मीलन्त्यः प्रकटीभूता अराला वक्रा लीला येषु तादृशानि बन्दनानि गतिविशेषा यस्य । सर्पोऽपि वक्रगतिर्भवति । तेषां केषाम्-यैः सङ्ग्रामेषु निजाङ्गुलीमय्याः स्त्रीयाङ्गुलीरूपाया महासिद्धौषध्या वीरुधो बल्लयाः स्पर्शमात्रेण विपघ्न्याः पर्व ग्रन्धिमङ्गुष्टाग्रपर्वग्रन्थिद्वयं चास्ये मुखे विनिवेश्य जाङ्गुलिकता विषवैद्यता गारुडिकता नालम्बिता नाङ्गीकृता । नाम प्रसिद्धौ । सर्पोपि येन स्वमुने सिद्धोषर्धापर्व न निक्षिप्यते तमेव यथा मारयति, तथा एतदीयः खङ्गोऽपि ये शस्त्राणि न त्यजन्ति दैन्याच्च मुखे अङ्गुलीपर्व न धारयन्ति तानेव हन्ति नान्यान्भीताञ्शरणागतांश्च । 'विषवैद्योजाङ्गुलिकः' इ[१]त्यमरः॥


  यः पृष्ठं युधि दर्शयत्यरिभटश्रेणीषु यो वक्रता-
   मस्मिन्नेव विभर्ति यश्च किरति क्रूरध्वनिं निष्ठुरः ।
  दोषं तस्य तथाविधस्य भजतश्चायस्य गृह्णन्गुणं
   विख्यातः स्फुटमेक एष नृपतिः सीमा गुणग्राहिणाम्॥९७॥

 य इति ॥ अरिभटश्रेणीषु शूरतरवैरिसङ्केषु विषये यः पृष्ठं दर्शयति पराङ्मुखः पला- यते । अथ च-यं प्रत्याकृष्यते तस्य स्वभावात्पृष्ठं दर्शयति । यः अस्मिन्स्वस्वामिन्येव नृपे वक्रतामनृजुत्वं स्वाश्रय एव कृतघ्नत्वं विभर्ति । अथ च -अन्यस्यैतादृग्वलाभावा- दस्मिन्नेव वक्रतां बिभर्ति । नान्येन नम्रीकर्तुं शक्यत इत्यर्थः । तथा -यो निष्ठुरो निर्दयो दाक्षिण्यरहितः सन क्रूरध्वनिमनेन सहाप्रियभाषणं किरति । अथ च -परिणतदृढवं. शजन्मा क्रूरं वैरिणां भयावहं शब्दं क्रेकारं क्षिपति । दोषं दूषणम् । अथ च-वाहुं भ- जतस्तथाविधस्य तस्य चापस्य तथाविधस्यान्यस्य वा कस्यचिद्गुणं श्रुतशौर्यादिकं गृह्णन्वर्णयन् । अथ च -मौर्वीमाकर्षन् एष एको नृपतिः स्फुटं निश्चितं गुणग्राहिणां पर- दोषख्यापननिवृत्तानां दोषेपि गुणारोपणं कुर्वतां सजनानाम् । अथ च -मौर्वीग्राहिणां


  1. 'रूपकालंकारो व्यज्यत एव' इति जीवातुः