पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
प्रथमः सर्गः

सितेति ॥ सिता श्वेता त्विट् दीप्तिर्यस्य तस्य चञ्चलतां चापल्यमुपेयुषः प्राप्तस्य पुच्छस्य च केसरस्य स्कन्धकेशसमूहस्य च मिषेण व्याजेन चलच्चञ्चलं चामरयुग्मं तस्य चिह्ननैः कृत्वा निजवाजिराजतां वाजिनां राजा वाजिराजः, तस्य भावस्तत्ता, निजस्यात्मनो वाजिराजता तामनिह्नुवानं प्रकटयन्तमिति स्फुटमुत्प्रेक्षे । राजा हि श्वेतचामरद्वयेन वीज्यते । चलनक्रियापेक्षया चिह्ननैरिति बहुवचनम् । चिह्ननैरिति 'तत्करोति-' इति ण्यन्ताद्भावे 'ल्युट् च' इति ल्युट् ॥

अपि विजिह्वाभ्यवहारपौरुषे मुखानुषक्तायतवल्गुवल्गया।
उपेयिवांसं प्रतिमल्लतां रयस्मये जितस्य प्रसभं गरुत्मतः ॥ ६३ ॥

 अपीति ॥ रयस्मये वेगगर्वे प्रसभं बलात्कारेण जितस्य गरुडस्य द्विजिह्वाः सर्पास्तेषामभ्यवहारो भक्षणं तस्माद्यत्पौरुषं तस्मिन्नपि मुखेऽनुषक्ता लग्ना आयता दीर्घा वल्गुः सुन्दरी या वल्गा प्रग्रहस्तया कृत्वा प्रतिमल्लतां प्रतिभटत्वमुपेयिवांसं प्राप्तवन्तम् । वल्गाप्रान्ता हि सर्पपुच्छसदृशा दृश्यन्ते । पूर्वं वेगदर्पविषये जितः, अधुना सर्पभक्षणपौरुषेऽपि । वल्गा कान्यकुब्जभाषायां 'वाग' इति प्रसिद्धा॥

सः सिन्धुजं शीतमहःसहोदरं हरन्तमुचैःश्रवसः श्रियं हयम् ।
जिताखिलक्ष्माभृदनल्पलोचनस्तमारुरोह क्षितिपाकशासनः ॥६४

 स इति ॥ सिन्धुजं सिन्धुदेशोद्भवम् । शीतमहाश्चन्द्रस्तस्य सहोदरं तुल्यम् । उच्चैःश्रवस इन्द्राश्वस्य श्रियं शोभा हरन्तं तत्सदृशम् । किंभूतो नल:-जिता अखिलाः समस्ताः क्ष्माभृतो राजानो येन । तथा अनल्पे महती लोचने यस्य सः। यद्वा- अनल्पं लोचनं ज्ञानं यस्य । तथा क्षितौ पृथिव्यां पाकशासन इन्द्र इव । क्षितौ पाकं पचिक्रियां शास्त्युपदिशति सूपशास्त्रप्रणेतृत्वात् । उच्चैःश्रवा अपि समुद्रजः , स चन्द्रभ्राता तं यथा जितसमस्तशैलः सहस्रलोचनश्च इन्द्र आरोहति, तथा तं हयमरुरोहेति । सिन्धुजमित्यनेनाश्वशास्त्रोक्तचतुःपञ्चादुत्तमकुलमध्यजत्वं बलित्वं महाकायत्वं च सूचितम् । कुलकम् ॥

निजा मयूखा इव तीक्ष्णदीधितिं स्फुटारविन्दाङ्कितपाणिपङ्कजम् ।
तमश्ववारा जवनाश्वयायिनं प्रकाशरूपा मनुजेशमन्वयुः ॥ ६५ ॥

 निजा इति ॥ अश्ववारा अश्वसादिनस्तं मनुजेशं राजानं नलमन्वयुरनुजग्मुः। किंभूता अश्ववाराः-निजाः स्वकीयाः। किंभूतं नलम्-स्फुटं प्रकटं लक्षणभूतानि रेखारूपाणि यान्यरविन्दानि तैरङ्कितं चिह्नितं पाणिपङ्कजं यस्य तम् । तथा-जवनो वेगवान्योऽश्वस्तेन यातीत्येवंशीलम् । के कमिव-निजाः सहजा मयूखाः किरणास्तीक्ष्णदी-


 १ 'अत्र सापह्नवोपमालंकारः' इति साहित्यविद्याधरी । २ 'अत्रोपमापरिकरश्लेषालंकाराः' इति साहित्यविद्याधरी । 'तं हयमारुरोह उच्चैःश्रवसः श्रियं हरन्तम्' इत्युपमा । सा च श्लिष्टविशेषणात्संकीर्णैव । 'स क्षितिपाकशासनः इत्यतिशयोक्तिः' इति जीवातुः। ५