पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३६
नैषधीयचरिते

समिति पतिनिपाताकर्णनद्रागदीर्ण-
 प्रतिनृपतिमृगाक्षीलक्षवक्षःशिलासु ।
रचितलिपिरिवोरस्ताडनव्यस्तहस्त-
 प्रखरनखरटङ्कैरस्य कीर्तिप्रशस्तिः ॥ ७५ ॥

 समितीति ॥ अस्य राज्ञः कीतिप्रशस्तिर्वर्णनपङ्क्तिः समिति सङ्ग्रामे पतीनां स्वामिनां निपातो मरणं तस्य आकर्णनेन द्राक् शीघ्रं अदीर्णानि प्रतिनृपतिमृगाक्षीणां लक्षस्य वश्रांसि तान्येव तक्षणमेवाविदीर्णत्वाच्छिलास्तासु शोकवशादुरस्ताडने व्यस्तयोर्दृढनिवेशितयोर्हस्तयोः प्रखरा अतितीक्ष्णा नखरा नखा एव टङ्काः पाषाणदारणलोहविकारास्तै रचितलिपिरिव रचितलेखनेव अस्तीति शेषः । अन्यस्यापि कीर्तिप्रशस्तिः शिलासु टङ्किकाभिरुत्कीर्य लिख्यते । सर्वेऽप्यरयोऽनेन हताः तन्नार्यश्च शोकवशादुरस्ताडनं कुर्वन्ति । अतिशूरत्वादस्य कीतिर्भवतीत्यर्थः । दृढशोकेऽप्यदीर्णत्वाच्छिलात्वम् । शोकातुरस्योरस्ताडनं जातिः । 'टङ्कः पाषाणदारणः' इत्यमरः । 'समित्याजिसमिद्युधः' इति (च)॥

विधाय ताम्बूलपुटीं कराङ्कगां बभाण ताम्बूलकर[१]ङ्कवाहिनी।
दमस्वसुर्भावमवेत्य भारतीं नयानया वक्रपरिश्रमं शमम् ॥ ७६ ॥

 विधायेति ॥ ताम्बूलस्य करङ्कः सुवर्णरचितहंसाद्याकारं ताम्बूलधारणपात्रम् 'पेटी' इति लोके, तस्य वाहिनी धारिणी काचित्सखी दमस्वसुर्भावं तद्वर्णननिषेधरूपमवेत्य ज्ञात्वा इति वभाण । किं कृत्वा-ताम्बूलपुटीॆ पूगीफलचूर्णखदिरपर्णानि यत्रैकत्र क्रियन्ते तां यां मध्यदेशेभाषया 'गुलवडा' इति व्यवहरन्ति तां देव्यै दातुं कराङ्कगां स्वीयकरतलमध्यगतां, देवीकरतलमध्यगतां वा कृत्वा कराङ्के गृहीत्वेत्यर्थः । इति किम् हे देवि, त्वं अनया वीटिकया एतदीयबहुवर्णनजनितं वक्रस्य सकलं परिश्रमं शमं नय बहुवर्णनजनितं शोषं शान्तिं प्रापयेति । एतत्स्तुतेर्विरमेत्यर्थः । अन्योपि शुष्कमुखो वीटिकया श्रमं शमयति ॥

समुन्मुखीकृत्य बभार भारती रतीशकल्पेऽन्यनृपे निजं भुजम् ।
ततस्त्रसद्दालपृषद्विलोचनां शशंस संसज्जनरञ्जनीं जनीम् ॥ ७७ ॥

 समिति ॥ भारती रतीशकल्पे कामतुल्येऽन्यनृपे निजं बाहुं सम्यगुन्मुखीकृत्य बभार भैम्यै तं दर्शयितुं तदभिमुखं चकार । ततोऽनन्तरं त्रसद्वालपृषद्विलोचनां भीतवालहरिणनेत्रां संसज्जनानां सभ्यानां रञ्जनीमनुरागजनिकां जनीं वरार्थिनीं तां भैमीं शशंसाभाणीत् । 'रतीशतुल्ये' इति वा पाठः । रञ्जनीं मृगरमणाभावान्नलोपाभावः॥


  1. करण्ड' इति पाठः।