पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३५
द्वादशः सर्गः।


यम्य एवंभूत एव दोष्णोर्वाद्दोरुद्दामप्रतापस्तीक्ष्णप्रतापः स एव ज्वलन् देदीप्यमानोऽनलः तम्य मिलन्संभवन् भृमा बाहुल्यं यस्य एवंभृतो बहुतरो धृमस्तस्य भ्रमाय सादृश्यादधृमेऽपि रजसि 'धृमः' इति बुद्धये नासीत् । अपि तु सर्वस्यापि । आर्द्रवेणुरूपेन्धनं दहतो वह्नेर्भूयान्धृमो भवति । सर्वेप्यस्य एतत्प्रतापवह्निना दग्धाः । अश्वपतिश्चायमिति भावः । आर्द्रं सार्द्रं पर्यायः । "मिलद्धृमभूम- इति पाटे मिलतां धृमस्य बाहुल्यं तद्भ्रा[१]न्तये ॥

क्षीरोदन्वदपाः प्रमथ्य मथितादेशेऽमरनिर्मिते
 स्वाक्रम्यं सृजतस्तदस्य यशसः क्षीरोदसिंहासनम् ।
केषां नाजनि वा जनेन जगतामेतत्कवित्वामृत-
 स्रोत:प्रोतपिपासुकर्णकलसीभाजाभिषेकोत्सवः ॥ ७४ ॥

 क्षीरेति ॥ केषां जगतां भुवनानां संवन्धिनां जनेनास्य राज्ञो यशसोऽभिषेक एवोत्सवो नाजनि नाकारिं । अपि तु स्वर्गादिस्थितेन सर्वेणापि लोकेन एतदीययशसोऽभिषेकः कृतः। विशेषणेनाधिष्ठानमाह-किंभूतस्य यशसः-क्षीरोदन्वदपाः क्षीरोदन्वान्क्षीरसमुद्रस्तस्य आपो जलानि दुग्धरूपाणि प्रमथ्य मन्दाचलेन कृत्वा प्रकर्षण विलोड्य अमरैर्देवैः मथनक्रियायोगात् मथितमिति आदेशे संज्ञायां निर्मिते कृतायाम् । अथ च-निर्जलं मन्थमथितं दधि मथितमित्युच्यते । ततश्च क्षीरस्यापि मथनक्रियायोगादस्तेर्भूवन्मथितरूपे आदेशे निर्मिते सति । जले स्थित्यसंभवात्क्षीरोदन्वदुदके दुग्धरूपेऽतिघने कृते सतीत्यर्थः । क्षीरोदरूपं सिंहासनं शुभ्रवस्तुमात्रापेक्षया तस्याति- शुभ्रत्वाद्यद्भद्रपीठं तत् स्वेनात्मना । अथ च-सुखेनायासरहितं यथा तथा । आक्रम्यमुपवेशनयोग्यं सृजतः कुर्वतः । क्षीरोदपदमधितिष्ठत इत्यर्थः। किंभूतेन जनेन-एतद्रचितं कवित्वम् , एतत्संबन्धि कविभिर्निर्मितं कीर्तिवर्णनरूपं वा कवित्वं तदेव स्वादुतरत्वादमृतं तस्य स्रोतसि प्रवाहे प्रोतौ स्यूतौ धृतौ सादरमाकर्णनेच्छु । अथ च जलभरणेच्छू । कर्णावेव कलश्यौ महान्तौ भजतीति भाजा भजता । लोके हि कस्मिंश्चिद्राजनि केनचिन्मथिते तदीयं सिंहासनमधितिष्ठतोऽन्यस्य केनचिद्वारिपूर्णेन कलशेनाभिषेकः क्रियते । धनीरूपतयोपवेशनयोग्यतां सूचयितुं मथितादेशे कृते सतीत्युक्तम् । जलोपर्युपवेशनासंभवात् । क्षीरोदादपि विमलतरं महीयश्चैतद्यशो वैदेशिकैर्लोकत्रयसंचारि कृतमिति भावः । 'तक्रं ह्युदश्चिन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्' इत्यमरः । क्षीरोदन्वदपाः 'उदन्वानुदधौ च' इति साधुः । 'ऋक्पूर-' इत्यप्रत्ययः । स्वाक्रम्यम् , 'पोरदुपधात्' इति यत् । अजनि कर्मणि चि[२]ण् ॥


  1. 'अत्र रजोराजौ कविसंमतसादृश्याद्धूमभ्रमोत्तया भ्रान्तिमदलंकारः' इति जीवातुः
  2. 'अत्र क्षीरोदसिंहासनाध्यासीन, एतद्यशःक्षीरोदस्याखिलाः कवय एवाभिषेक्तारः, कवित्वमेव जलम्, श्रोतजनकर्णा एव कलशाः, तत्संभवस्याप्यपसरितः प्रसर्पणात्स्तुतिरेवाभिषेकः' इति रूपकालंकारः, इति जीवातुः।