पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३३
द्वादशः सर्ग:

 स्मृजामीति॥ वधु: भैमी सन्त्रीजने डङ्कितेभ्रेभक्तादिचेष्ठितै: कृत्वा तां भैमीमिति पृन्छति सति स्वाभिप्रायज्ञापनार्थ स्मिताय वक्त्रं यत् अवक्रयद्वक्रं चक्रे । तत् वदनवक्रणमेव तन्नृपे तस्मिन्राज्ञि वैमुख्यं परामुस्वत्वमलक्षि लक्षितम् । अन्यतो विलोकनादंवात्रानादरोऽस्या इति सखीभिः, लोकेन, तेन राज्ञा वा तर्कितमित्यर्थः । इति किम् - हे भैमि, अहं अयं चासौ नृपश्च इदंनृपः तस्य स्तुतौ विघ्नं सृजामि किम् । 'वैलक्ष्यम्' इति (पाठे) 'असावधानतया यस्मान्मुखमवक्रयत् । तस्मादेव नृपगतमेव वैलक्ष्यं मालिन्यं लोकैर्लक्षितमित्यर्थः । स्मिताय स्मितं कर्तुम् . 'क्रियाधौपपद-' इति चतुर्थी ॥

दृशास्य निर्दिश्य नरेश्वरान्तरं मधुस्वरा वक्त्रुमधीश्वरा गिराम् ।
अनूपयामास विदर्भजाश्रुती निजास्यचन्द्रस्य सुधाभिरुक्त्रिभिः ॥६९॥

 दृशेति ॥ अथ मधुस्वरा मधुरस्वरा गिरामीश्वरा वक्तुं वर्णयितुं दृशा नेत्रव्यापारेण नरेश्वरान्तरं नृपान्तरं निर्दिश्य दर्शयित्वा विदर्भजाश्रुती भैमीकर्णौ निजास्यं स्वीयं वदनमेव चन्द्रस्तस्य सुधाभिरमृतरूपाभिरुक्तिभिः कृत्वा अनूपयामास परिपूर्णे चकार । उवाचेत्यर्थः । अनुगता आपो यत्र अनूपो देशः, 'ऋक्-' आदिना समासान्ते 'ऊदनोर्देशे' इत्यूकारः । अनूपे जलप्लुते चकार 'तत्करोति-' इति णिच् । लक्षणया मधुरस्वराकर्णनस्तिमिते चकारेत्यर्थः । 'अपूपुरद्भीमभुवः श्रुती पुनः' इति पाठे 'णौ चड्युपधायाः-' इत्युपधाह्रस्वः ॥

स कामरूपाधिप एष हा त्वया न कामरूपाधिक ईक्ष्यतेऽपि यः।
त्वमस्य सा योग्यतमासि वल्लभा सुदुर्लभा यत्प्रतिमल्लभा परा ॥७०॥

 स इति ॥ स एष कामरूपस्य देशविशेषस्य अधिपः । अथ च - मदनरूपस्यापि स्वामी तद्रूपधारणादित्यर्थः । स कः-यः त्वया ईश्यतेऽपि न । न अभिलप्यत इति तु किं वाच्यमित्यर्थः। हा कष्टम् अनुचितमेतत् । यतः-कामाद्रूपेणाधिकोऽतिसुन्दरः । अथ वा कामाद्रूपेणाधिको नेति काकुर्वा । यतः- अयं कामादधिकस्तस्मादस्य सा त्वं योग्यतमा वल्लभासि नितरामुचिता प्रेयसी भवसि । सा का-परा उत्कृष्टा यस्यास्तव प्रतिमल्ला तुल्या भा कान्तिः सुतरां दुर्लभा । यस्याः सदृशी कान्तिः कस्यांचिदपि न दृष्टचरी। अस्यापि (ति) सुन्दरत्वादित्यर्थः । अथ च-परान्या स्त्री यस्यास्तुल्यकान्तिर्दुर्लभा, सातिसुन्दरी त्वमित्यर्थः । त्वमतिसुन्दरी अस्य सुतरामयोग्येत्यर्थ इति वा । व्याख्यानान्तरं क्लिष्टत्वादुपेक्ष्यम् । सुदुर्लभा, 'न सुदुर्भ्यां केवलाभ्याम्' इति नुम्निषेधः॥

अकर्णधाराशुगसंभृताङ्गतां गतैररित्रेण विनास्य वैरिभिः ।
विधाय यावत्तरणेर्भिदामहो निमज्ज्य तीर्णः समरे भवार्णवः॥७१॥

 अकर्णेति ॥ अस्य वैरिभिः समरे निमज्ज्य निपत्य यावान्सकलस्तरणिः सूर्यस्तस्य ।