पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३०
नैषधीयचरिते

धिकारिणी देवी कृता, त्वं का सती का भवन्ती केन प्रयुक्ता सती । अथ च-असती कुलटा का त्वमुत्तरं ददासि अत्र वक्तुमयोग्येति । पारिपार्श्विकान्, परिपार्श्वे वर्तन्ते पारिपार्श्विकाः परिमितं च' इति चकाराठ्ठक् ॥

धराधिराजं निजगाद भारती तदुन्मुखेषद्वलिताङ्गसूचितम् ।
दमस्वसारं प्रति सारवत्तरं कुलेन शीलेन च राजसूचितम् ॥ ६१ ॥

 धरति ॥ भारती दमस्वसारं प्रति धराधिराजं नृपं निजगाद । कथयति स्मेत्यर्थः । किंभूतम्-तस्य वर्णनीयनृपस्योन्मुखं संमुखं ईषद्वलितेन किंचित्परिवर्तितेनाङ्गेन करादिना सूचितं ज्ञापितम् । तथा—सारवत्तरमतिबलिष्ठम् । तथा -कुलेन शीलेन स्वभावेनाचरणेन वा राजसु मध्ये उचितं योग्यं श्रेष्ठम् । कुलशीलाभ्यां सारवत्तरं श्रेष्ठतरं वा ॥

कुतः कृतैवं वरलोकमागतं प्रति प्रतिज्ञाऽनवलोकनाय ते ।
अपीयमेनं मिथिलापुरंदरं निपीय दृष्टिः शिथिलास्तु ते वरम्॥६२॥

 कुत इति । हे भैमि, ते त्वया स्वयंवरार्थमागतं वरलोकं परिणेतृवृन्दं प्रति लक्षीकृत्य एवममुना दृश्यमानप्रकारेण अनवलोकनायादर्शनाय प्रतिज्ञा कुतः कस्मात्कारणात्कृता । अपि त्वयुक्तमैवैतत् । 'वा' इति पाठे कुतो वेत्यन्वयः । अनवलोकनायैवेत्यवधारणार्थो वा । न केवलमव([१]धा)रणायैव, किंतु-अनवलोकनायापीत्यप्यर्थो वा। किंतर्हि कर्तव्यमित्यत आह-हे भैमि, ते इयं दृष्टिः एनं मिथिलानगर्याः पुरंदरं स्वामिनं निपीयैव शिथिलास्तु । एतद्वरम् । सर्वथानवलोकनाद्विलोकनं वरमिति राजान्तरवदननुरागेणाप्येनं विलोकयेत्यर्थः। अन्ये यद्यपि नावलोकितास्तथाप्येनं विलोकय विलोकनेनाप्येनं संभावयेत्यर्थः । पूर्वश्लोके सामान्यत उक्तत्वादन्वादेशे एनमिति समर्थनीयम् ॥

न पाहि पाहीति यदब्रवीरमुं ममौष्ठ तेनैवमभूदिति क्रुधा।
रणक्षितावस्य विरोधिमूर्धभिर्विदश्य दन्तैर्निजमोष्ठमास्यते ॥ ६३ ॥

 न पाहीति ॥ अस्य विरोधिमूर्धभिर्वैरिशिरोभिः इति क्रुधा रणक्षितौ निजमोष्ठं दन्तैर्विदश्य विशेषेण दृष्ट्वा आस्यते स्थीयते । इति किम्-हे ओष्ठ, त्वं अमुं नृपं प्रति पाहि पाहीति यत् नाब्रवीः तेन कारणेन ममैवं भूमौ विलुण्ठनपूर्वं मरणमभूदिति । पाहि पाहीति यो वदति तमयं रक्षति । पाहीति पदोच्चारणे प्रथमं तवैव सामर्थ्यम् । पकारस्यौष्ठयत्वात् । त्वया च सदर्पत्वात्तद्नुच्चारणान्मामयं मारितवानिति त्वमेवापराधीत्यर्थः । शवमुष्टिन्यायेनाधरोप्टो दृष्ट एव तिष्ठति न तु मुक्त इति आस्यते इत्यनेन सूचितम्[२]


  1. 'अवधारणाय' इत्यत्र धकारो लेखकप्रमादपतितः ।
  2. 'अत्र शत्रुशिरसां प्रत्यर्थिविषयक्रोधहेतुकस्योष्ठ- दंशनस्योष्ठविषयक्रोधहेतुकत्वोत्प्रेक्षणाद्धेतूत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या' इति जीवातुः।