पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
द्वादशः सर्गः।

कनार्हो यो नेपालानां देशानां नृपालो राजा तं पिबन्ति सादरं पश्यन्ति एवंभृता लयो भ्रमरभूता भवन्तु । एनं तावत्कटाक्षैर्विलोकयेत्यर्थः ॥

ऋजुत्वमौनश्रुतिपारगामिता यदीयमेतत्परमेव हिंसितुम् ।
अतीव विश्वासविधायि चेष्टितं बहुर्महानस्य स दाम्भिकः शरः॥४४॥

ऋजुत्वेति ॥ ऋजुत्वमवक्रता नम्रत्वप्रियवादित्वादिरूपा विनीतता च । नधामौनं निःशब्दत्वं वानियमश्च । श्रुतिपारगामिता-आकर्णपूर्णता वेदपारगामिता च । एवंरूपं अतीवातितरां विश्वासकारि विगतभ्यासकारि मनसि हितप्रत्ययकारकं च प्रलीकपवनाभ्यासवशाद्वा श्वासाभावकारि यदीयमेतच्चेष्टितं परं शत्रुं स्वव्यतिरिक्तं च सर्वं जनं हिंसितुमेव हन्तुमेव प्राणप्रियधनग्रहणार्थमेव च न तु लक्षव्यधनमात्रप्रयोजनं, न चार्जवादिगुणार्जनं प्रयोजनम् । सः अस्य बहुरसंख्यः महानक्षयोऽतिदीर्घश्च शरः दाम्भिकः । 'दम्भेन चरति' इति रूपकम् । अतिशूरोयमिति भावः । दाम्भिके यावद्वृत्तं तत्सर्वमेतस्य शरे विद्यत इत्यर्थः । दाम्भिकेन यत्क्रियते तदेतच्छरेण क्रियत इत्यर्थः । इति वा । दम्भो हिंसा माया च प्रयोजनमस्य, 'प्रयोजनम्' इति ठक् । तेन चरति वा, 'चरति' इति [१]ठक् ॥

रिपूनवाप्यापि गतोऽवकीर्णितामयं न यावज्जनरञ्जनव्रती।
भृशं विरक्तानपि रक्तवत्तरान्निकृत्य यत्तानसृजासृजद्युधि ॥४५॥

रिपूनिति ॥ यावन्तो जनास्तावतां रञ्जनं तदेव व्रतं तदस्यास्तीति एवंभूतोऽयं राजा रिपूनप्यवाप्य । रिपून्प्राप्यापि वा । अवकीर्णितां क्षतव्रतत्वं न गतः प्राप्तः। यत् यस्मात्स्वशरीरादिविषये भृशं विरक्तानननुरागिणोऽपि । अथ च-एनं दृष्ट्वा विगतरुधिरानपि तान्रिपून् युधि निकृत्य वाणैश्छित्त्वा असृजा रुधिरेण कृत्वा रक्तवत्तरान्रक्तवन्तोऽनुरागिणः। अथ च-रक्तं विद्यते येषु ते रक्तवन्तः, अतिशयेन रक्तवन्तो रक्तवत्तराः एवंभूतांस्तानसृजच्चकार । वैरिणामपि रञ्जनात्क्षतव्रतत्वं न जातमित्यर्थः । रक्तवत्तरान्, क्तवतुर्मतुप् च ॥

पतत्येतत्तेजोहुतभुजि कदाचिद्यदि तदा
पतङ्गः स्यादङ्गीकृततमपतङ्गापदुदयः ।
यशोऽमुष्येवोपार्जयिनुमसमर्थेन विधिना
कथंचित्क्षीराम्भोनिधिरपि कृतस्तत्प्रतिनिधिः ॥ ४६ ॥

 पततीति ॥ पतङ्गः सूर्यः एतस्य तेज एव हुतभुगग्निस्तस्मिन् यदि कदाचित्कस्मिन्नपि समये पतति तदा तर्हि अङ्गीकृततमः भृशमङ्गीकृतः पतङ्गानां शलभानां देहदाहलक्षणाया आपद उदयो येन एवंभूत एव स्यात् । एतत्तेजसातितरां संतापवशात्पीडितः


  1. 'अत्र शरे दाम्भिकत्वोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या' इति जीवातुः।