पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
द्वादशः सर्गः।

आक्रन्दद्भूरि यतन्नयनजलमिलच्चन्द्रहंसानुबिम्ब-
प्रत्यासतिप्रहृष्यतनयविहसितैराश्वसीत्यश्वसीच्च ॥ २८ ॥

एतदिति ॥ एतस्मानीतानामरीणां नारी, एतस्माद्भीता अरिनारी वा गिरिविले पर्वतकंदरायां विगलद्वासरातिवाहितदिवसा, तथा-रात्रौ निःसरन्ती विलादहिनिगच्छन्ती । तथा तदनन्तरं स्वः स्वकीयो मदीयः क्रीडाहंस पवायमिति मोहो भ्रा- न्तिस्तया ग्रहिलः मदीयमेनं हंसं देहीत्याग्रहवान् शिशुस्तेन भृशं प्रार्थितो याचित उन्निद्रश्चन्द्रः यां एवंभूता सती चन्द्रदाने सामर्थ्याभावात्तदाग्रहशान्त्यभावादुःखवशायद्यद्यस्माद्भुरि बहु आक्रन्दद्रुरोद । तस्माद्धेतोः बहुतरे नयनजले मिलप्रतिबिम्बरूपेण संघट्टमानो यश्चन्द्ररूपो हंसस्तस्य योऽनुबिम्बः, मिलन्यश्चन्द्रहंसस्यानुबिम्बो वा, तस्य प्रत्यासत्या सामीप्येन मदीयः क्रीडाहंसोऽयमागत इति बुद्ध्या प्रह्रष्यतो मोदमानस्य तनयस्य पुत्रस्य विहसितैर्हासैः कृत्वा तदाग्रहशान्तेः आश्वसीदाश्वासं प्राप । परित्यक्तस्वीयसंपत्स्मरणात्क्व तव हंसः वृथैव भ्रान्तोऽसीति न्यश्वसी (स च शोकनिश्वासं चामुञ्चत् । आश्वसीत् , लङि 'रुदश्च पञ्चभ्यः' इत्यपृक्तसार्वधातुकस्येडागमः । लुङि वा ह्रयन्तक्षण-' इति वृद्धिनिषेधे रूपम् । न्यश्वसी(सत् : लङि अङ्गाग्र्यगालवयोः इत्यपृक्तसार्वधातुकस्याडा[१] गमः ॥

अस्मिन्दिग्विजयोद्यते पतिरयं मे स्तादिति ध्यायिनी
कम्पं सात्त्विकभावमञ्चति रिपुक्षोणीन्द्रदारा धरा।
अस्यैवाभिमुखं निपत्य समरे यास्यद्भिरूर्ध्वं निजः
पन्था भास्वति दृश्यते बिलमयः प्रत्यर्थिभिः पार्थिवैः ॥२९॥

अस्मिन्निति ॥ हे भैमि, अस्मिन्राज्ञि दिग्विजयोद्यते सति रिपवश्च ते क्षोणीन्द्रा राजानस्तेषां दाराः प्रिया वशवर्तिनी धरा पृथ्वी अयं राजा मे पतिः स्वामी स्ताद्भूयादिति ध्यायिनी चिन्तयन्ती सती सात्त्विकेषु मध्ये कम्पलक्षणं सात्त्विकभावमञ्चति ग- च्छति । अन्यस्वामिसूचकं भूकम्पलक्षणं भौममुत्पातं प्राप्नोतीत्यर्थः । एवमन्याप्येवं ध्यायन्ती सती सात्त्विकं भावं प्राप्नोति । तथा-समरेऽस्यैवाभिमुखं शस्त्राघातैर्निपत्य ऊर्ध्वमूर्ध्वदेशम् । अथ च-उत्तमं स्वर्गलोकं, यास्यद्भिर्गमिष्यद्भिः प्रत्यर्थिभिः पार्थिवैः भास्वति सूर्यमण्डलमध्ये निजः स्वीयो बिलमयः पन्था दृश्यते । 'द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परित्राट् योगयुक्तश्च रणे चाभिमुखो हतः ॥' इति वचनात् । अथ च-सूर्ये विलरूपो ह्युत्पातश्च म्रियमाणैर्दश्यते । अतिशूरोऽयमिति [२] भावः ।

विद्राणे रणचत्वरादरिगणे त्रस्ते समस्ते पुनः
कोपात्कोपि निवर्तते यदि भटः कीर्त्या जगत्युद्भटः।


  1. 'अत्र नारीशिश्वोश्चन्द्रबिम्बे तत्प्रतिबिम्बे च विसंमतसादृश्याद्धंसभ्रान्तिनिबन्धनाद्भ्रान्तिमदलंकारः' इति जीवातुः।
  2. 'अत्रात्मीयोर्ध्वगमनमार्गत्वोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या' इति जीवातुः ।