पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१५
द्वादशः सर्गः

कावसनाञ्चले यत् एष काकस्य पदार्पणे चरणस्थापने ग्रहस्त नोपवेशनार्थं पौनःपुन्येन प्रवृत्तिनिर्बन्धः। तत् कौतुकं पश्येति संबन्धः । अननुरक्तायां भैम्यां शृङ्गारचेष्टां भावयतः पाण्ड्यस्यायं यथा पटाञ्चले उपवेशनार्थ काकस्याग्रहोऽनुचितः, तथैतस्य पाण्ट्यस्यायं भैम्यां दुरभिनिवेश इति सूचनार्थं सरस्वतीकृननर्णननिवारणार्थं बेयमुक्तिः । इत एतद्वर्णनकौतुकात्सकाशादिति वा ॥

ततस्तदप्रस्तुतभाषितोत्थितैः सदस्तदश्वेति हसैः सदासदाम्।
स्फुटाजनि म्लानिरतोऽस्य भूपतेः सिते हि जायेत शितेः सुलक्ष्यता॥

 तत इति ॥ ततस्तस्या दास्याः पूर्वोक्तमप्रस्तुतं भाषितं वचनं तस्मादुन्धितैः सदासदां सन्यानां हसैर्हसितैः तत् सदः सा सभा अश्वेति श्वेतीकृतम् । तद्वचनंनं श्रुत्वा सभ्या हसन्ति स्मेत्यर्थः । अतः सद-श्वेतीकरणाद्धेतोरस्य भूपतेम्लोनिः लज्जा बत्रम्य स्फुटाजनि । अत्रार्थान्तरन्यासमाह-हि यस्मात् सिते शुभ्रवस्तुनि शितः कृष्णवर्णस्य सुलक्ष्यता प्रकटता जायते । सभ्यहास्यवशा सोऽधिकं विवर्णो जात इत्यर्थः । स स्वत एव श्यामः सभ्यहास्यवशादधिकः श्यामो जात इति वार्थः । अश्वेति, "श्चितिङ् शौक्ये' इत्यस्माण्ण्यन्तात्कर्मणि लुङ्कात्मनेपदम् ॥

ततोऽनु देव्या जगदे महेन्द्रभूपुरंदरं सा जगदेकवन्द्यया।
तदार्जवावर्जिततर्जनीकया जनी कयाचित्परचित्स्वरूपया ॥ २३ ॥

 तत इति ॥ ततः कयाचिल्लोकोत्तरयानिरूपितरूपया देव्या वाण्या महेन्द्रभुवो महेन्द्रनामकपर्वतसंबन्धिनो देशस्य पुरंदरं स्वामिनं अनु लक्षीकृत्य सा जनी स्वयंवरा जगदे उक्ता । किंभूतया-जगतः एका देवतान्तरपरित्यागेन वन्द्या तया । यतः-परा श्रेष्ठा चित् ज्ञानलक्षणं स्वरूपं यस्यास्तया । तथा तस्या भैम्या यदार्जवं ऋजुत्वं तेनावर्जिता वर्णनार्थमूर्ध्वीकृता तर्जनी यया । तस्मिन्वर्णनीये नृपे विषये वा । देव्या वा यदार्जवं कृपा तया । जगदे कर्मणि तङ् । 'वाचंयमपुरंदरौ च' इति निपातनात्पुरंदरः साधुः । तर्जनीक इति, 'नद्युतश्च' इति कप् । अनोर्लक्षणे कर्मप्रचनीयत्वात्पुरंदरमिति द्वितीया ॥

स्वयंवरोद्वाहमहे वृणीष्व हे महेन्द्रशैलस्य महेन्द्रमागतम् ।
कलिङ्गजानां स्वकुचद्वयश्रिया कलिं गजानां शृणु तत्र कुम्भयोः ॥ २४ ॥

 स्वयमिति ॥ हे भैमि, स्वयंवरेण उद्वाहस्तल्लक्षणे महे उत्साहे आगतं महेन्द्रशैलस्य महेन्द्रं स्वामिनं वृणीष्व । त्वं तत्र पर्वतोपलक्षिते देशे कलिङ्गदेशे जातानां गजानां कुम्भयोः स्वकुचद्वयश्रिया सह कलिं समानशोभाख्यद्रव्याभिलाषनिमित्तं कलहं शृणु। हस्तिकुम्भास्त्वत्कुचसाम्यमभिलषिष्यन्ति परं न प्राप्स्यन्तीति भावः । स्वयंवरोद्वाह एव मह उत्सवो यस्यास्तत्संबुद्धिरिति वा ॥