तस्मादुत्पतिताः स्फूरन्ति जगदुत्सङ्गे स्फुलिङ्गाः स्फुटं |
भङ्गेति ॥ अस्य प्रतापानलः भङ्गेन पराजयेन जनिता अकीर्तिः सैव श्यामत्वान्मषी तया मलीमसतमा अतितरां मलिनीभूताः प्रत्यर्थिसेनाभटाः शत्रुसैनिकशूरास्तेषां श्रेणी समूहः सैव श्यामन्वात्तिन्दुककाननानि तेषु विलसति विशेषेण दीप्यते । तस्मादेतदीयात्प्रतापानलादुत्पतिता उत्थिताः भालाल्ललाटादुद्भूतं भवाक्षि हरतृतीयनेत्रं, भानुः सूर्यः, हुतभुग्वह्निः, जम्भारेरिन्द्रस्य दम्भोलिर्वज्रः, एते स्फुलिङ्गाः स्फुटं अग्निकणा इत्र जगदुत्सङ्गे जगतां भृम्यादीनां मध्ये स्फुरन्ति शोभन्ते । तिन्दुकवनानि हि श्यामानि भवन्ति । तत्र पतितो वह्निश्चटचटाशब्दं कुर्वन्स्फुलिङ्गान्मुञ्चति । महत्स्वपि हरनेत्रादिषु स्फुलिङ्गत्वारोपेण प्रतापानलस्यातितरां माहात्म्यं सूचितम् -यस्य कणा एवं भूताः स कथंभूतो भवतीति[१] ॥
एतद्दन्तिबलैविलोक्य निखिलामालिङ्गिताङ्गीं भुवं |
एतदिति ॥ हे भैमि, एतस्य पाण्ड्वस्योग्रसमरस्य प्रेक्षायै उपनम्रा समागता अमरश्रेणी देवसङ्घः तन्मध्यचरो मध्ये वर्तमानः । देवत्वं प्राप्त इति यावत् । एवंभूतः पृथुवैन्यः पृथ्वीन्द्रः पुनः क्षितिधराणां पर्वतानां क्षेपाय प्रोत्सारणाय धियं बुद्धिं धत्ते । किं कृत्वा-सङ्ग्रामाङ्गणस्य सीम्नि मर्यादायां जङ्गमानां स्थानात्स्थानान्तरं गच्छतां गिरीणां स्तोमस्य भ्रमाधायिभिर्भ्रान्तिं कुर्वाणैश्चलदुच्चतरगिरितुल्यैरेतस्य दन्तिवलैर्निखिलां भुवमालिङ्गिताङ्गीं व्याप्तप्रदेशां विलोक्य । पूर्वं पृथुना स्वधनुष्कोट्या जगमपर्वतानुत्सार्य क्षेत्रादिविभागः कृतः । एतद्गजान्दृष्ट्वा सङ्ग्रामदर्शनार्थमागतेन एते पर्वता इति बुद्ध्यैतदुत्सारणे पुनरपि बुद्धिः कृतेत्यर्थः । उच्चतरगजबाहुल्यं दारुणरणरसिकत्वं च सूचिंतम्[२] ॥
शशंस दासीङ्गित्तविद्विदर्भजामितो ननु स्वामिनि पश्य कौतुकम्। |
शशंसेति ॥ इङ्गितविद्भैम्यभिप्रायज्ञा काचिद्दासी विदर्भजां शशंस बभाषे । ननु हे स्वामिनि, इतः अस्यां दिशि त्वं कौतुकं पश्य । किं तत्-सौधः सुधाधवलितगृहं तस्याग्रमूर्ध्वदेशस्तत्र वर्तमाने नटे चलत्वान्नर्तकतुल्ये वायुवशाच्चलेऽपि पटाञ्चले पता-