पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२९
द्वादशः सर्गः।

स्या अस्तीत्याचामवती करोति इत्यर्थे 'तत्करो-' इति ण्यन्तस्य लक्षणप्रतिपदोक्तपरिभाषया प्रतिपदोक्तप्रत्यवसानार्थत्वाभावात्परस्मैपदाभावः । निगरणादिसूत्रेणानुवृत्तपरस्मैपदसंज्ञया परस्मैपदस्य विधानात् 'संज्ञापूर्वको विधिरनित्यः' इति परिभाषयात्र परस्मैपदं न भवतीति वा । आचाम इति, 'न कम्यमिचमाम्' इति मिच्वनिषेधाद्रस्वत्वाभावः[१]

अपा विहारे तव हारविभ्रमं करोतु नीरे पृषदुत्करस्तरन् ।
कठोरपीनोच्चकुचद्वयीतटत्रुटत्तरः सारवसारवोर्मिजः ॥ ७ ॥

 अपामिति ॥ हे भैमि, आरवेण सहिताः सारवाः सरय्वा इमे सारवाः एवंभूता ऊर्मयस्तेभ्यो जातः पृषदुत्करो बिन्दुसमूहः अपां विहारे अनेन सह जलक्रीडायां सत्यां तव हारविभ्रमं त्वत्संबन्धिहारविलासं करोतु । किंभूतः-नीरे तरन्प्लवमानः । तथा- कठोरातिकठिना पीना उच्चा त्वदीया कुचद्वयी तस्यास्तटे परिसरे त्रुट्यत्तरोऽतिशयेन त्रुट्यन्विशीर्यमाणतरः । जलक्रीडावशाद्विच्छिन्नस्त्वदीयो मुक्ताहार इव शोभताम् । अथ च-पश्यतो लोकस्य भैमीहारः किमयमिति विशिष्टां भ्रान्तिं जनयतु । विगतहारे देशे हारविलास इति विरोधश्च । अथ च-पृषदुत्करः हरिणसङ्घः क्रीडाप्रदेशे क्रीडां करोतु युक्तम् । सरयूक्रीडाप्राप्त्यर्थमेनं वृणीष्वेति भावः । 'देविकायां सरय्वां च भवे दाविकसारवौ' इत्यमरः । दाण्डिनायनादिसूत्रेण साधुः[२]

अखानि सिन्धुः समपूरि गङ्गया कुले किलास्य प्रसभं स भन्त्स्यते ।
विलङ्घयते चास्य यशःशतैरहो सतां महत्संमुखधावि पौरुषम् ॥८॥

 अखानीति ॥ अस्य कुले वंशे पूर्वजैः सगरपुत्रैरिन्द्रनीताश्वहरणार्थं सिन्धुः समुद्रः पातालपर्यन्तमखानि खातः। कपिलशापदग्धानां तेषामेवोद्धरणार्थ भगीरथेनानीतया गङ्गया समपूरि पूर्णः कृतः । तथा-श्रीरघुनाथेन रावणवधार्थं प्रसभं हठेन स सिन्धुः भन्त्स्यते बन्धनं नेष्यते किलेति पुराणप्रसिद्धमेतत् । स एव इदानीमस्य यश:- शतैर्विलङ्घयते च । सर्वे समुद्रमेव प्रतिपौरुषं किमिति कृतवन्त इत्यत आह-अहो युक्तमेतत्सतां महतां पौरुषं महतामेव संमुखं धावति प्रसरतीत्येवंशीलम् । क्षुद्रान्क्रपयोपेक्षत एवेत्यर्थः । एवंविधा अस्य पूर्वजाः, श्रीरघुनाथश्च यस्मिन्वंशे समुत्पत्स्यते, तस्मिन्वंशे समुत्पन्नोऽयम् । अस्य यशांसि समुद्रपारगाणीत्येनं वृणीष्वेति भावः । भन्त्स्यते, बन्धेः कर्मणि लृटि भष्भावे चर्वे च रूपम् ॥

एतद्यशःक्षीरधिपूरगाहि पतत्यगाधे वचनं कवीनाम् ।
एतद्गुणानां गणनाङ्कपातः प्रात्यर्थिकीर्तीः खटिकाः क्षिणोति ॥९॥

 एतदिति ॥ एतस्य यशस एव क्षीरधेर्यः पूरस्तं गाहते एवंशीलं एतदीययशोवर्णकं


  1. 'अत्र ‘भवन्मुखस्पृशोश्चकोरचक्षुषोः' इति विषये निगरणे भैमीचकोरचक्षुषोरभेदप्रतीतेः भेदेऽभेदलक्ष- णातिशयोक्तिरलंकारः, इति जीवातुः'
  2. ’ 'भ्रान्तिमदलंकारः-' इति जीवातुः।