पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
नैषधीयचरिते

 अलमिति ॥ अमी विवेकप्रमुखा विवेकादयो गुणा नलमिदं पूर्वोक्तं चापलं रोद्धमा- वरितुमलं समर्था नाभवन् । नलस्य चापलं रोढुं न समर्था इत्यर्थः । किल निश्चयेन । यद्यतः स प्रसिद्धः स्मरो रत्यामनुरागे सति पुरुषमनिरुद्धमेव चपलमेव सृजति क- रोति । अयमेताइक्सर्गनिसर्गः सृष्टिनिर्णयः स्वभावो वा । अयमेव निश्चय इत्यर्थः । अनुरागे सति सर्वोऽपि चञ्चलो भवतीत्यर्थः । विवेकस्यापि किमपि न चलतीत्यर्थः । यद्वा-स्मरो रत्यां संभोगेऽनिरुद्धं निवारयितुमशक्यं चापलमित्यर्थः । अयमीदृशः का- मेन सृज्यमानस्य प्रस्तुतत्वाञ्चापलस्य स्वभावः । अथ च-मदनः प्रद्युम्नाख्यो रत्यां स्वप्रियायामनिरुद्धनामानमेव पुत्रं जनयतीति यत्, अयमीदृशोऽनादिः सर्गस्वभावः। हेयोपादेयविचारो विवेकः। नलमिति षष्ठ्यर्थे सप्तम्यर्थे वा द्वितीया, रुद्धेर्द्विकर्मकत्वात् । 'स्वभावश्च निसर्गश्च' इत्यमरः । रोद्धमित्यलंयोगे 'पर्याप्तिवचनेषु-' इति तुमुन्1 ॥

अनङ्गचिहूं स विना शशाक नो यदासितुं संसदि यत्नवानपि ।
क्षणं तदारामविहारकैतवान्निषेवितुं देशमियेष 2निर्जनम् ॥ ५५ ॥

 अनङ्गेति ॥ स नलो यदा यस्मिन्समये विरहचिह्नापलापविषये यत्नवानपि सन् सं- सदि सभायामनङ्गाचह्न पाण्डुत्वकृशत्वगोत्रस्खलनााद कामचिह्न्ं विना क्षणमप्यासितुं स्थातुं नो शशाक न समर्थोऽभूत् तदा तस्मिन्समये आराम उपवने विहारः क्रीडा तस्याः कैतवाद्व्याजेन निर्जनं देशमुद्यानदेशं निषेवितुं सेवितुमियेष ऐच्छत् । क्षण- मुत्सवरूपं, निर्जनत्वाद्देशविशेषणं वा । यत्तदिति कारणार्थं वा । 'कालविशे- षोत्सवयोः क्षणः' इत्यमरः। चिह्नमिति 'पृथग्विना-' इति द्वितीया । क्षणमिति पक्षे 'कालाध्वनोः-' इति द्वितीयां3 ॥

अथ श्रिया भर्त्सितमत्स्यलाञ्छनः समं वयस्यैः स्वरहस्यवेदिभिः ।
पु4रोपकण्ठोपवनं किलेक्षिता दिदेश यानाय निदेशकारिणः ॥५६॥

 अथेति ॥ अथानन्तरं स नलो यानाय यानमानेतुं निदेशकारिणो भृत्यान्दिदेशाज्ञाप- यामास । किंभूतः-विरहव्यथाव्यथितोऽपि श्रिया कान्त्या सुरूपत्वार्ग्भर्त्सितस्तिर- स्कृतो मत्स्यलाञ्छनः कामो येन । विरहव्यथागोपनार्थमङ्गीकृतशोभत्वाद्वा जितकामः। तथा स्वरहस्यवेदिभिः स्वाम्यभिप्रायज्ञैर्द्धित्रैर्वयस्यैः सखिभिः समं सह पुरोपकण्ठोप- वनं नगरनिकटस्थमुद्यानम् । किलेत्यलीकम् । ईक्षिता ईक्षमाणः । कामचिह्नापहवे ता- त्पर्यं, न तु वनविलोकन इति किलेत्युक्तम् । उपकण्ठम् । सामीप्येऽव्ययीभावः। पूरण- गुण-' इत्यव्ययेन सह समासनिषेधात्पुरमुपकण्ठं यस्येति बहुव्रीहिः । केचिदस्मिन्सूत्रे पूर्वोत्तरसाहचर्यात्कृदव्ययस्यैवायं निषेधो, न त्वव्ययमात्रस्येत्याहुः । तन्मते पुरस्योपक-


 १ 'अत्र स्मररागस्य दुरितया सर्वसृष्टिसाधारण्येन नलचापलदुरित्वसमर्थनात्सामान्येन विशेषसमर्थनरू- पोऽर्थान्तरन्यासः' इति जीवातुः । 'अत्रोत्प्रेक्षाहेत्वलंकारौ' इति साहित्यविद्याधरी । २ 'नैषधः' इति पाठस्तिलकसुखावबोधासाहित्यविद्याधरीसंमतः । तत्र ‘आराम-इत्यादिविशेषणसामर्थ्याद्विजनम्। इति सुखावबोधा । ३ 'अत्रापह्नुतिरलंकारः' इति साहित्यविद्याधरी । एतेन 'चापलाख्यसंचारिणि भ्रम- णलक्षणोऽनुभाव उक्तः' इति जीवातुः । ४ 'पुरोपकण्ठं स वनम्' इति पाठः साहित्यविद्याधरीसंमतः।