दन् ब्रह्मणा किमिति रोदिषिति पृष्टः सन् नामेच्छया रोदिमीत्युक्तेन ब्रह्मणा कृतं नामेति । नामेच्छया मिपमात्रमधत्त । वस्ततस्तु लोकानां दुःखं दृष्ट्वारुदत्, नतु रुद्रनामेच्छयेत्यर्थः । यत् यतः स रुद्रः तां पुरी संसारसागरतरीं संसारसमुद्रतारणनौकां मोक्षदायिनीमसृजत् । काशीमागतस्य संसारदुःखानि पराभवं कर्तुं न शक्नुवन्ति । मोक्ष एव भवतीति भावः । पुरा रोदिति, 'पुरि लुङ्चास्मे' इति लट् ॥
वाराणसी निविशते न वसुंधरायां |
वाराणसीति ॥ हे भैमि, वाराणसी वसुंधरायां न निविशते न विद्यते । तत्र मखभुजां देवानां या स्थितिः। सा भुवने स्वर्गलक्षणे निवासः। तत्र या स्थितिःलोकानां सा देवानां भुवने स्वर्गे निवास इति वा । स्वर्ग एव काशी न तु भूमिरित्यर्थः । अत एव काश्याः स्वर्गरूपत्वादेव हेतोस्तस्मिन्काशीलक्षणे तीर्थ तत्संबन्धिनि मणिकर्णिकादौ तीर्थे मुक्तवपुषां त्यक्तकलेवराणां नॄणां मुक्तिः मोक्षो भवति । यदि काशी तीर्थमात्रमेव स्यात् न स्वर्गः तर्हि तत्र त्यक्तशरीराणां नॄणां स्वर्गलक्षणमेव फलं भवेन्न तु मुक्तिः । मुक्तिस्तावद्भवतीति पुराणप्रामाण्यादवसीयते । अन्यथा स्वर्गात्परमधिकं मुदे मुक्तिव्यतिरिक्तहर्षार्थ कीदृक् तु पुनः पदं स्थानं, कीदृग्वा हेतुः उदेतु उत्पद्यताम् । अपितु मुक्तिव्यतिरिक्तमन्यन्नास्तीत्यर्थः । भूलोके तीर्थादौ मृतानां सुखाय स्वर्गाप्तिः फलम् । इयमपि अन्यभूतीर्थतुल्या चेद्भवेत् तर्हि अत्रापि मृतानां स्वर्ग एव नतु मुक्तिः । मुक्तिस्तावद्भवति । तस्मात्स्वर्गरूपैवेयम् । स्वर्गेऽपि त्यक्तदेहानां तदाधिकं मुक्तिलक्षणं फलं युक्तमिति भावः । एतन्महिमा काशीखण्डादौ पुराणे ज्ञातव्यः ॥
सायुज्यमृच्छति भवस्य भवाब्धियाद- |
सायुज्यमिति ॥ हे भीमोद्भवे भैमि, भवाब्धिः संसारसमुद्रस्तस्य यादो जन्तुः नगराजपुत्र्याः पार्वत्याः पत्युः भवस्य सायुज्यं ऐक्यमृच्छति प्राप्नोति । किं कृत्वा-तां नगरीमेत्य प्राप्य । सह युनक्तीति सयुक् तस्य भावः सायुज्यम् । किंभूताम्-भूतस्य सत्यस्य तारकब्रह्मण अभिधाने उपदेशे समर्थाम् । कः कमिव-अस्तिधातुः 'अस् भुवि' इति धातुः भूताभिधानपटुमतीतकालार्थाभिधानसमर्थामद्यतनीं लुङ्किभक्तिं प्राप्य भवतिभावमिव । 'अस्तेर्भूः' इत्यनुशासनाद्भूधातुत्वं यथा प्राप्नोति । अद्यतनीति