पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१३
एकादशः सगः

  व्यापत्सदाशयविसारितसप्ततन्तु-

   जन्मा चतुर्दश जगन्ति यशःपटश्च ॥ १०० ॥

 आश्चर्यमिति ॥ अस्य आजानुगाजानुपर्यन्तगामिनो दीर्घाद्भुजयुगात् उदितः प्रतापः ककुभां दिशामवधीन्प्रान्तानवापत्प्राप एतदाश्चर्यम् । तथा-संश्चासावाशयश्च तेन शुचिना चित्तेन विसारिताः कृताः सप्ततन्तवो मखास्तेभ्यो जन्म यस्य एवंभूतो यशःपटः चतुर्दश जगन्ति व्यापत् एतदप्याश्चर्यम् । अस्य राज्ञो दिक्प्रान्तगामि-चतुर्दशजगद्व्यापिनोः प्रतापशःपटयोर्दर्शनादेवाश्चर्यम् । अथवा-कारणगुणानां कार्ये समवायस्यावश्यकत्वाज्जानुपर्यन्तगामिनो भुजयुगादुत्पन्नस्य प्रतापस्यातिदृरदिक्प्रान्तगामित्वादाश्चर्यम् । तथा-सदा सर्वदा शयेन हस्तेन प्रसारिताः सप्तसंख्यास्तन्तवस्तेभ्योऽल्पपरिमाणेभ्यः कारणेभ्यः समुत्पन्नस्य पटस्य चतुर्दशजगद्व्यापित्वान्महदाश्चर्यमित्यर्थः । एवंविधः प्रतापवान्यशस्वी चान्यः कोऽपि नास्तीति भावः । 'सप्ततन्तुर्मखः क्रतुः' इत्यमरः॥


औदास्यसंविदवलम्बितशून्यमुद्रा-
 मस्मिन्दृशोर्निपतितामवगम्य भैम्याः।
स्वेनैव जन्यजनतान्यमजीगमत्तां
 सुज्ञं प्रतीङ्गितविभावनमेव वाचः ॥ १०१ ॥

 औदास्य इति ॥ जन्यजनता जन्यजनसमूहः स्वेनैव वचनं विना आत्मनैव तां भैमीमन्यं नृपमजीगमत्प्रापयामास । किं कृत्वा-अस्मिन्नृपे निपतितां भैम्या दृशोरौदास्यस्य संवित् वुद्धिः इयति वर्णने कृतेऽप्यनवलोकनेनौदास्यज्ञानं तयावलम्बिता शून्यमुद्रा तां प्रेमराहित्यचिह्नं (ताम् ) अवगम्य ज्ञात्वा । आज्ञा विना कथं नीतवान् अत्रार्थेऽर्थान्तरन्यासमाह-सुज्ञं पण्डितं प्रति इङ्गितविभावनं चेष्टितज्ञापनमेव वाच उपदेशाः । उदास्त इत्युदासः पचाद्यजन्तः ब्राह्मणादित्वात्ष्यञ् ॥

एतां कुमारनिपुणां पुनरप्यभाणी-
 द्वाणी सरोजमुखि निर्भरमारभस्व ।
अस्मिन्नसंकुचितपङ्कजसख्यशिक्षा-
 निष्णातदृष्टिपरिरम्भवि[१]जृम्भितानि ॥ १०२ ॥

 एतामिति ॥ वाणी सरस्वती कुमारी चासौ निपुणा च नलान्यतारतम्यज्ञा तामेतां पुनरपि इत्यभाणीत् । हे सरोजमुखि, अस्मिन्नृपे असंकुचितस्य विकसितस्य पङ्कजस्य


  1. 'विजृम्भणानि'-इति जीवातुसुखावबोधासंमतः पाठः ॥