पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९०
नौषधीयचरित

 एतदिति ॥ हे भैमि. एतस्य यशोभिस्तुषारकिरणस्य इन्दोः भासां किरणानाममलानि शुभ्राणि कुलानि तृणीकृतानीति तथ्यं सत्यम् । ततस्तस्मादेव हेतोः रङ्कुः चिह्नहरिणः सुधालक्षणमम्बु तस्य सिन्धौ समुद्रे तत्र तस्मिंश्चन्द्रे तेषां कान्तितृणानामङ्कुरास्तेषां बनी वृन्दं तस्याः कवलाभिलापाद्ग्रासाभिलापाद्वसति इदं स्थाने उचितम् । मृगो हि स्वादुजलतृणाङ्कुरबहले देशे वसति चन्द्ररूपे स्थाने इति वा । अतितरामयं यशस्वीति भावः ॥

आलिङ्गितः कमलवकरकस्वयाऽयं
 श्यामः सुमेरुशिखयेव नवः पयोदः ।
कंदर्पमूर्धरुहमण्डनचम्पकस्र-
 ग्दामत्वदङ्गरुचिकञ्चुकितश्चकास्तु ॥ ९८ ॥

 आलिङ्गित इति ॥ हे भैमि, त्वया आलिङ्गितोऽयं नृपः नवः पयोदो मेघ इव चकास्तु भासताम् । किंभूतः-भाग्यचिह्नं कमलं तद्वान्करो यस्य । तथा स्वभावाच्छयामः । तथा-कंदर्पस्य मूर्धरुहाः केशास्तेषां मण्डनं चम्पकपुष्पस्रग्दाम तद्वत् या त्वदङ्गरुचिः। स्रग्दामरूपा मदनोदयकारिणी अतिगौरी त्वदीयाङ्गकान्तिर्वा । तया कञ्चुकितः संवलितः। मेघोऽपि-कमलं जलं तद्वत्यः करका वर्षोपला यस्य । तथा-सजलत्वान्नीलः। तथा-सुमेरुशिखया आलिङ्गितः संवद्धः । विद्युता संवलितश्च । गौरश्यामयोः संबन्धः सुतरां शोभते । स्रग्दामेति समुदितो मालावाचकः शब्दः॥

एतेन संमुखमिलत्करिकुम्भमुक्ताः
 कौक्षेयकाभिहतिभिर्विबभुर्विमुक्ताः ।
एतद्भुजोष्मभृशनिःसहया विकीर्णाः
 प्रस्वेदबिन्दव इवारिनरेन्द्रलक्ष्म्या ॥ ९९ ॥

 एतेनेति ॥ हे भैमि, एतेन राज्ञा कौक्षेयकाभिहतिभिः खड्गप्रहारैः कृत्वा विमुक्ताः कुम्भस्थलेभ्यो भूमौ पातिताः संग्रामार्थ संमुखं मिलतामागच्छतां करिणां कुम्भस्थलस्था, मुक्ता मुक्ताफलानि एतस्य राज्ञः भुजोष्मणो बाहुप्रतापस्य भृशं अतिशयेन निःसहया सोढुमसमर्थया अरिनरेन्द्रा एतस्य वैरिणो राजानस्तेषां लक्ष्म्या विकीर्णा विसृष्टाः प्रस्वेदबिन्दवः प्रकृष्टधर्मोदबिन्दव इव विबभुः। हस्तियोधित्वादतिशूरोऽयमिति भावः । 'कौक्षेयको मण्डलाग्रः' इत्यमरः । कुक्षौ भवः 'कुलकुक्षि-'इति खङ्गेऽभिधेये ढकञ् ॥

  आश्चर्यमस्य ककुभामवधीनवाप-

   दाजानुगाद्भुजयुगादुदितः प्रतापः।