पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
 

अपहुवानस्य जनाय यन्निजामधीरतामस्य कृतं मनोभुवा ।
अबोधितजागरदुःखसाक्षिणी निशा च शय्या च शशाङ्ककोमला४९

 अपेति ॥ मनोभुवा कामेनास्य नलस्य यदु अनिर्वाच्यं कृतम् । तत् निशा रात्रिः शय्या आस्तरणं चाबोधि जानाति स्म । किंभूतस्यास्य-जनाय लोकाय निजां स्वकी- यामधीरतामधैर्यमपह्नुवानस्य गोपायतः। किंभूता निशा शय्या च-यतो जागरदुःखं साक्षादीक्षते सा। विदुषीत्यर्थः । तज्जागर इत्येकं पदं वा । तथा शशाङ्ककोमला च- न्द्रेण मनोहरा । शशस्य मृगविशेषस्याङ्क उत्सङ्गस्तद्वन्मृद्वी । चन्द्रवन्मनोहरा वा । चन्द्रेण कर्पूरप्रक्षेपेण मनोहरा वा । चान्द्री रात्रिरतिदुःसहत्वाजागरदुःखसाक्षिणी । शय्या चात्मनि विलुण्ठनेन । रात्रिशय्याव्यतिरेकेण केनचित्तद्विरहदुःखं न ज्ञातमिति भावः । जनायेति 'श्लाघह्नुङ्-' इति संप्रदानत्वम् । अबोधीति 'दीपजन-' कर्तरि चिण् । निशा इति हलन्ताद्वा टाप् । शय्या इति 'संज्ञायां समजनि-' इति क्यपि 'अयङ् यि-' इत्ययङ्1 ॥

स्मरोपतप्तोऽपि भृशं न स प्रभुर्विदर्भराजं तनयामयाचत ।
त्यजन्त्यसूञ्शर्म च मानिनोवरं त्यजन्ति न त्वेकमयाचितव्रतम्॥५०

स्मरेति ॥ भृशं स्मरोपतप्तोऽष्यतिशयेन कामपीडितोऽपि स नलो विदर्भराजं विदर्भ- देशाधिपं भीमं तनयां कन्यां नायाचत । यतः प्रभुः समर्थः । अभिमानीति यावत् । कामपीडितः स कथं न याचितवानित्यत आह-मानिनोऽभिमानिनः पुरुषाः शर्म सुखं, तथा असूंश्च प्राणानपि त्यजन्ति । एतद्वयं तेषां वरमल्पमिष्टम् । एकमद्वितीयं प्र- धानमयाचितव्रतम् । अयाचनरूपं व्रतं नैव त्यजन्तीत्यर्थः। एतदद्वरं न विद्यते वरं श्रेष्ठं यस्मात् । अतिश्रेष्ठमित्यर्थः । पाठक्रमादर्थक्रमस्य बलीयस्त्वाच्छर्मपदस्य पूर्वमन्वयः । यद्वा-चकारस्तुल्यकालद्योतनार्थः । शर्म यथा भवति तथासूनपि त्यजन्ति । सुखेन त्यजन्तीत्यर्थः । वरं श्रेष्ठमिति व्रतविशेषणं वा । विदर्भराजेति 'राजाहः-' इति टच् । याचिद्विकर्मकः । 'दैवानृते वरः श्रेष्ठे त्रिषु क्लीवे मनाक्प्रिये' इत्यमरः2 ॥

मृषाविषादाभिनयादयं क्वचिज्जुगोप निःश्वासततिं वियोगजाम् ।
विलेपनस्याधिकचन्द्रभागताविभावनांच्चापललाप पाण्डुताम् ५१

मृषेति ॥ अयं नलः क्वचित्कस्मिंश्चिद्वस्तुनि विषये मृषाविषादाभिनयात्तद्वस्तु गतमि- ति मिथ्याखेदप्रकटनाद्वियोगजां विरहजनितां निःश्वासततिं निःश्वासपरम्परां जुगोप तिरोधत्ते स्म । तथो विलेपनस्य चन्दनस्याधिकश्चन्द्रभागः कर्पूरांशो यस्मिंस्तस्य भावस्तत्ता, तस्या विभावनाशापनात्प्रकटीकरणाद्वियोगजां पाण्डुतां चापललाप । अद्य


१ 'एतेन नायकस्य लज्जागुणोऽभिहितः । श्लेषालंकारः' इति साहित्यविद्याधरी। २ 'अर्थान्तर- न्यासोऽलंकारः । तथाच काव्यप्रकाश:--'सामान्यं वा विशेषो वा तदन्येन समर्थ्यते । यत्र सोऽर्थान्तरन्यासः साधर्म्येणेतरेण वा ॥ इति साहित्यविद्याधरी ।