पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
एकादशः सर्गः।

यन्मौलिरत्नमुदितासि स एष जम्बू-
 द्वीपस्त्वदर्थमिलितैर्युवभिर्विभाति ।
दोलायितेन बहुना भवभीतिकम्पः
 कंदर्पलोक इव खात्पतितस्त्रुटित्वा ॥ ८३ ॥

 यन्मौलीति ॥ हे भैमि, यस्य मौलिरत्नं शिरोरत्नं त्वं उदितास्युत्पन्नासि, स एष जम्बूद्वीपः त्वदर्थमिलितैस्त्वदर्थमागतैर्युवभिः कृत्वा भवाद्धराद्भीत्या कम्प्रः कम्पनशीलः बहुना दोलायितेन दोलनेन कृत्वा त्रुटित्वा विच्छिद्य खात्पतितः कंदर्पलोक इव विभाति । सर्वेऽपि युवानः कामतुल्या इत्यर्थः। द्वीपे रत्नमुत्पद्यते । अन्यदप्यान्तरालिकं वस्तु बहुना दोलनेन गगनात्त्रुटित्वा पतति ॥

विष्वग्वृतः परिजनैरयमन्तरीपै-
 स्तेषामधीश इव राजति राजपुत्रि।
हमाद्रणा कनकदण्डमहातपत्रः
 कैलासरश्मिचयचामरचक्रचिह्नः ॥१४॥

 विष्वगिति ॥ हे राजपुत्रि, अयं जम्बूद्वीपः तेषां शाकद्वीपादीनामधीश इव राजेव राजति । राजचिह्नमेवाह-किंभूतः-अन्तरीपैः सिंघलादिद्वीपैरेव परिजनैः सेवकैर्विषक् सर्वतो वृतः। तथा हेमाद्रिणा मेरुणा कृत्वा कनकदण्डं सुवर्णदण्डं महातपत्रं महच्छत्रं यस्य । तथा-कैलासस्य रश्मिचयः किरणसमूहरूपं चामरचक्रं चामर- सङ्घश्चिह्नं यस्य । अन्योऽपि राजा परिजनैः सेव्यते । कनकदण्डातपत्रश्चामरचिह्नितश्च भवति॥

एतत्तरुस्तरुणि राजति राजजम्बूः
 स्थूलोपलानिव फलानि विमृश्य यस्याः।
सिद्धस्त्रियः प्रियमिदं निगदन्ति दन्ति-
 यूथानि केन तरुमारुरुहुः पथेति ॥ ४५ ॥

 एतदिति ॥ हे तरुणि, एतस्य जम्बूद्वीपस्य चिह्न तरू राजजम्बू राजति । एष कः-सिद्धस्त्रियो यस्या जम्ब्वाः फलानि स्थूलोपलानिव स्थूलपाषाणतुल्यानि विमृश्य दृष्ट्वा प्रियं भर्तारं प्रति इदं इतीदृशं निगदन्ति पृच्छन्ति । इति किम्-हे प्रिय, दन्तियूथानि हस्तिसमूहाः केन पथा तरुं जम्बूवृक्षमारुरुहुरारूढाः । जम्बूसंबन्धादेवास्य जम्बूद्वीप इति नाम । राजजम्बूः, राजदन्तादित्वात्परनि[१]पातः ॥


  1. 'अत्र जम्बूफलेषु दन्तिभ्रमोक्त्या भ्रान्तिमदलंकारः-' इति जीवातुः ।