वैदैवचोभिरखिलैः कृतकीर्तिरत्ने |
वेदैरिति ॥ तया भैम्या तस्मिन्महीभुजि अनुमतिः संमतिर्न भेजे । कया कस्मिन्निवपूर्वमीमांसया भगवत्यमृतांशुमौलौ शिव इव। किंभूते- अखिलैर्लोकैर्वेदतुल्यैः सत्यैर्वचोभिः कृत्वा कृता कीर्तिः स्तुतिर्यस्य स कृतकीर्तिश्चासौ रत्नं चेति । कृतं कीर्तिरत्नं यस्येति वा । तथा- हेतुं कारणं विनैव धृतो नित्यं परार्थे परकार्ये यत्नो येन । स्वोपकारानपेक्षं कृतोपकारे । किंभूते शिवे- अखिलैश्चतुर्भिर्वेदैः वचोभिर्महावाक्यैः कृत्वा कृतं कीर्तिरत्नं यशोरत्नं यस्येति । तथा- हेतुं कारणमन्तरेण धृतनित्यपरार्थयत्ने । परमकारुणिक इत्यर्थः । मीमांसापि वेदं प्रति कर्तृत्वमात्रेणेश्वरमङ्गीकृतवती, न तु सर्वथा नास्तीति । 'विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे । श्रेयः प्राप्तिनिमित्ताय नमः सोमार्धधारिणे ॥ इति नमस्कारश्रवणात्[१] ॥
तस्मादिमां नरपतेरपनीय तन्वीं |
तस्मादिति ॥ अथ अनन्तरं स जन्यजनो वाहकलोकः स्त्रीभावेन स्त्रीत्वेन धावितपदां चालितचरणां गच्छतेति चरणचालनेन संज्ञापयन्तीमिमां तन्वीं कृशाङ्गीं भैमीं तस्मान्नरपतेरपनीयाकृष्य अन्यं राजन्यं निन्ये प्रापयामास । तत्र दृष्टान्तः- अर्थी याचकः अविमृश्य दातुं निर्धनत्वमविचार्य याच्ञां विधनाद्दरिद्रान्निवर्त्य वित्तेन धनेन वित्तं प्रसिद्धं धनिनम् । वित्तं प्रसिद्धं वित्तं यस्य इति वा। एवंभूतमिव प्रापयन्तीत्यर्थः । किंभूतां याच्ञाम्-'यजयाचयतविच्छप्रच्छरक्षो नङ्' इत्यस्मिन्सूत्रे सर्वेषु पुंलिङ्गेषु पदेषु याच्ञाशब्दो नङ्ङन्तो व्युत्पादितः । शक्तिस्वाभाव्यात्स्त्रियां वर्तते इति स्त्रीस्वभावेन स्त्रीलिङ्गतया धावितं शोधितं पदं रूपं यस्यास्ताम्[२] ॥
देवी पवित्रितचतुर्भुजवामभागा |